________________
Book I. THE ESTRANGING OF FRIENDS;
120
Tale xxx a: Wise foe.
कवशाद् विधृतनानाविधपक्षिणां मध्याद् एकः पञ्जरस्थो वृद्धपक्षी शब्दं चकार । स च पल्लीपतिः समस्त पक्षिरुतभाषाकुशलः पक्षिरतार्थ विचार्य प्रहृष्टमनाः स्वभृत्यान अब्रवीत् । यत् किलैष । पक्षी खल्व एवं कथयति । मार्गेण गच्छताम अमीषाम अध्वन्यानां पार्श्वे महामूल्यानि रत्नानि सन्ति। ततो गृह्णीत गृहीत। इति । तद् एतान विधुत्यानयत । अथ तैस तथानुष्ठिते पल्लीपतिना स्वयम *उल्लुण्ठितानाम अपि तेषां पार्श्व न किंचित प्राप्तम । ततो मुक्तास ते कक्षापटमात्रपरिच्छदा गन्तुम आरब्धाः। ततः स पक्षी तथैव पुनर् विरौति । तच च श्रुत्वा पल्लोपतिना " पुनर् आनायितास ते सविशेषं सम्यक् संशोध्य मुक्ताः सन्तो यावद् गच्छन्ति । तावत् तथैव तारतरं तस्मिन पक्षिणि व्याहरति पुनर् अय् आकार्य पल्लीपतिना ते पृष्टाः । यथा । किलैष पक्षी 12 सर्वदा दृष्टप्रत्ययो न कदाचिद् अलीकं ब्रूते । ततो भवतां पार्श्व रत्नानि कथयति । तत् क्व तानि । इति । अथ ते ऽब्रुवन। यद्य अस्माकं पार्वे रत्नानि भवेयुः । तत् कथं विलोकनपरा 15 अपि भवन्तो न पश्येयुः । पल्लीपतिर् आह । यद् एष पक्षी पुनः पुनः कथयति । तद् अवश्यं भवदीयजठरान्तरे रत्नानि विद्यन्ते । संप्रति च संध्या संजाता। प्रभाते रत्नकारणाद् अवश्यं 13 युष्माकम् उदराणि विदारयिष्यामि । इत्य् आक्षिप्य कारापवरके
पिताः। ततश चौरश चिन्तयाम आस । प्रातः खल्त्व अमीषाम उदरेषु विदार्यमाणेषु यदा तादृशरत्नानि पल्लीपतिः प्राप्स्यति । 21 तदा निश्चितं दुरात्मा मदीयम् अपि जठरं लोभाविष्टः पाटयिप्यति । ततो यथाकथम् अपि मम मृत्युर् एव । तद् अब किम अहं करोमि । उक्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org