SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ OE, THE LION AND THE BULL. Book I. Tale xxx a: Wise foe. 6 वणिक्पुत्रेणाभिहितम् । न खल्व् अर्थे विना * क्वाप्य् अभिमतमिरि भवति । इति रोहणाचलं गच्छामः । तत्र रत्नान्य् आसाद्य समस्तमनोरथान् अनुभविष्यामः । इति समीचीनम् अर्थम एनं सर्वे प्रतिपद्य रोहणाचलं गताः । तच च भाग्यवशाद् एककम् अमूल्यम् उत्तमरत्नम् आसादितम् । अथ ते पर्यालोचितवन्तः । कथम् अस्माभिर् इतो बहूपायेन वीमार्गेण प्रस्थितेर् एतानि रत्नानि रक्षणीयानि । अथ भट्टपुत्रो ऽब्रवीत् । ननु मन्त्रिपुत्रोऽहम् । तन् मयाच पाय‍ चिन्तितः । यथा । एतानि स्वस्वोदरान्तः प्रक्षिप्य नीयन्ते । यथा सार्थिकस्य चौरादिकस्य च योग्या न भवामः । इति निर्णीय भोजनवेलायाम् अन्नकवलान्तर् निधाय तैस् तानि कवलितानि । एवं चानुष्ठीयमाने तच पर्वतोपत्यकायाम् अलक्षितविश्रान्तः कोऽपि । पुरुषस् तान् दृष्ट्वा चिन्तयाम् आस । अहो ' मया च रोहणाचले रत्नार्थिना बहुदिनानि पर्यटितानि । क्षीणभाग्यतया न किंचिल् लब्धम् । तद् एभिः सह गच्छामि । यतो यत्रैव मार्गे जातश्रमा 15 निद्रां यास्यन्ति । तत्रैवामीषाम् उदराणि विदार्य चीण्य् अपि रत्नान्य् अपहरिष्यामि । इति कृतनिश्चयः पर्वताद् अवतीर्य तेषां गच्छतां पृष्ठतो लग्नः । अब्रवीच् च । भो भो महापुरुषाः । 18 न शक्नोम्य् अहम् एकाकी भीषणां महाटवीम् उल्लङ्घ्य स्वदेशं गन्तुम् । अतो भवतां सार्थे मिलितः समेष्यामि । ते ऽपि * साहाय्यवृद्धिम् इच्छन्तः । तथा । इति प्रतिपद्य सहैव गन्तुम् : आरब्धाः । 12 अथ तस्याम् अटव्यां गिरिगहनप्रदेशाश्रिता मार्गासन्नभिल्लपल्ली तिष्ठति । तत्परिसरेण गच्छतां तेषां पल्लीपतिगृहे कौतु Jain Education International 119 For Private & Personal Use Only 3 9 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy