________________
116
Book I. THE ESTRANGING OF FRIENDS%3B Tale xxviii: How mice ate iron.
Frame-story.
छ्येनेन नीतः। ते प्रोचुः । भो नाडुक । न सत्यम् उक्तं त्वया। किं श्येनः पञ्चदशवार्षिकं पुत्रम *अपहर्तुं शक्नोति । ततो नाडुको विहस्य प्रोवाच । भोः । श्रूयतां मवचनम्।
तुलां लोहसहस्रस्य । यत्र खादन्ति मूषकाः ।
श्येनः कुञ्जरहृत् तत्र । किं चित्रं यदि पुचहृत् ॥४०९॥ ने प्रोचुः । कथम् एतत् । नाडुको ऽपि तेषां तुलावृत्तान्तम् । अकथयत् । तं श्रुत्वा विहस्यैकस्य तुलाम् ' अपरस्य पुत्रं समर्पयाम आसुः ॥
अतो ऽहं ब्रवीमि । तुलां लोहसहस्रस्य । इति । करटकः पुनर् अब्रवीत् । तत् । मूर्ख । " पिङ्गलककृतं संजीवकप्रसादम असहमानेन त्वयैतत् कृतम् । यद् वा साध्व इदम् उच्यते ।
प्रायेणात्र कुलान्वितं कुकुलजाः स्त्रीवल्लभं दुर्भगा दातारं कृपणा ऋजून अनृजवस तेजस्विनं कातराः। *वैरूप्योपहताश च कान्तवपुषं सौख्यस्थितं दुःस्थिता नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥४१०॥
sārdū तथा। मूर्खाणां पण्डिता द्वेष्या। निर्धनानां महाधनाः।
व्रतिनः पापशीलानां । *दुश्चारिण्याः कुलस्त्रियः॥४११॥ अथवा। सदृशं *चेष्टते स्वस्थाः । प्रकृतेर ज्ञानवान अपि ।
प्रकृतिं यान्ति भूतानि । निग्रहः किं करिष्यति ॥४१२॥ तस्यैव युक्तम् उपदेष्टुम् । यः सकृद् उक्तं गृह्णाति । त्वं तु पाषाण व शून्यहृदयो निश्चेष्टः। किं तवोपदिष्टेन। किं च । मूर्ख। त्वया सह संवास एव न युज्यते । कदाचित् त्वत्संपर्काद् अस्माकम अप्य् अनर्थः स्यात् । उक्तं च।।
मूर्खेण सह वासो ऽपि । देश ग्रामे पुरे गृहे। अनर्थायैव संभाव्यो । व्यवहारर् विनेव हि ॥४१३॥ वरं जलधिपातालाज्वलनावटपातनम् । न विवेकविहीनेन । मूर्खेण सह संगतम् ॥ ४१४॥ लभते पुरुषस तांस तान् । गुणदोषान साध्वसाधुसंपर्कात् ।
नानादेशविचारी। पवन व शुभाशुभान गन्धान ॥४१५॥ साधु चेदम उच्यते।
21.
ar 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org