________________
115
OR, THE LION AND THE BULL. Book I.
Tale xxvill: How mice ate iron.
गमिष्यामि । ततस त्वं धनदेवनामानम आत्मीयपुत्रं स्नानोपकरणयहणाय मया सह संप्रेषयासोऽपि लक्ष्मणो निजचौर्यशङ्कितः पुत्रं धनदेवम उवाच । वत्स । पितृव्यो ऽयं ते नाडुकः स्नानार्थ : नद्यां यास्यति । तद् गम्यताम अनेन सह स्नानोपकरणम आदाय । इति । अहो । साध्व् इदम उच्यते ।
न भक्त्या कस्यचित् को ऽपि । प्रियं प्रकुरुते नरः। मुक्ता भयं प्रलोभं वा । कार्यकारणम एव वा ॥४०७॥
तथा च।
अत्यादरो भवेद् यत्र । कार्यकारणवर्जितः ।
तत्र शङ्का प्रकर्तव्या । परिणामे ऽभयावहा ॥४०॥ अथासौ लक्ष्मणपुत्रः स्नानोपकरणम आदाय प्रहृष्टमना नाडुकेन । सह नद्यां गतः । अथ नाडुको नद्यां स्नात्वा तं लक्ष्मणपुत्रं 12 धनदेवं गिरिगुहायां प्रक्षिप्य तद्दारे बृहच्छिलां दत्वा लक्ष्मणगृहम आयातो लक्ष्मणेन पृष्टः । भो नाडुक । कथ्यताम । क मे पुत्रो धनदेवस त्वया सह गतः स्थितवान् । नाडुक आह । 15 भो लक्ष्मण । नदीतटाच छ्येनेनापहृतः । लक्ष्मण आह । भो नाडुक । अतथ्यवादिन । महाकायं धनदेवं कथम् इव श्येनो ऽपहरति । नाडुको ऽब्रवीत् । भो लक्ष्मण । मूषकाः पुनर् 18 लोहमयीं तुलां भक्षयन्ति । तद् अर्पय मे तुलाम् । यदि पुत्रेण प्रयोजनम् । एवं विवदन्तौ तौ हाव् अपि राजबारम उपगतो। ततो लक्ष्मणस् तारस्वरेण प्रोवाच । भोः । अब्रह्मण्यम अब्रह्मण्यं 21 वर्तते । मम पुत्री धनदेवनामानेन नाडुकेनापहृतः । अथ धर्माधिकारिणस् तं नाडुकम ऊचुः । भोः । समर्पय लक्ष्मणपुत्रम् । नाडुको जगाद । किं करोमि । पश्यतो मे नदीतटाच् 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org