________________
110
Book I. THE ESTRANGING OF FRIENDS;
Talexxvi: Good-heart and Bad-heart.
यव्यसनसेवितया सच्छिद्रभाग्यतया च क्षीणप्रत्यंशः पुनर् अपि धर्मबुद्धिना सहापरं शतं शतं विभक्तवान् । अथ तस्य तद् अपि वर्षस्यान्तरे तथैव परिक्षीणम् । एवं च दुष्ट बुद्धिश चिन्तयाम : आस । यदि पुनस तेन सह शतं विभजामि । ततः शेषेश चतुर्भिः शतैर् अपहृतेर् अपि किम् अल्पः । तस्मात् षट् शतान्य एवापहरामि । इति विचिन्यैकाकीभूय ताम अर्थमात्राम अपनीय तं 6 भप्रदेशं समीकृतवान् । अतिक्रान्ते च मासमाचे स्वयं गत्वा धर्मबुद्धिम अभिहितवान । भद्र । शेषद्रव्यं समविभागं कुर्वः । इत्य उक्त्वा धर्मबुद्धिना सह तम् उद्देशं गत्वा खातकर्म कर्तुम् . आरब्धौ । खन्यमाने च भूभागे यदासाव् अर्थो न दृश्यते । तदा धृष्टतया दुष्टबुद्धिः प्रथमत एव तेनैव रिक्तभाण्डेनात्मनः शिरस ताडयन्न् अब्रवीत् । व तंद् ब्रह्महृदयम् । नूनम् । धर्मबुद्धे । 12 त्वयैवापहृतम् । तद् अर्पय तस्यार्धम् । नो चेत् । अहं राजकुले निवेदयिष्यामि । स आह । भो दुरात्मन् । मैवं वद । धर्मबुद्धिः खल्ल अहम् । नैतच् चौर्यकर्माचरामि । उक्तं च । . 15
मातृवत् परदाराणि । परद्रव्याणि लोष्टवत् ।
आत्मवत् सर्वभूतानि । वीक्षन्ते धर्मबुद्धयः ॥३९०॥ ततस तौ हाव् अपि विवदन्तौ धर्माधिकरणं गत्वा द्रव्यापहरण- 18 वृत्तान्तं कथयतः । तच छुत्वा धर्माधिकरणिकैस तयोर् दिव्यम आदिष्टम् । अथ पापबुद्धिः प्राह । अहो । न सम्यग् दृष्टो न्यायः। उक्तं च । यतः।
विवादे दृश्यते पत्रं । तदभावे तु साक्षिणः ।
साक्ष्यभावात् ततो दिव्यं । प्रवदन्ति मनीषिणः ॥३९१॥ तद् अत्र विषये मम वनदेवता साक्षिभूता तिष्ठति।सापि भवताम 4
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org