________________
OR, THE LION AND THE BULL. Book I. Talexxvi: Good-heart and Bad-heart.
Tale xxvii: Heron, serpent, and mongoos.
आवयोः साधुम असाधं वा कथयिषति । अथ तैर् अभिहितम् । युक्तम उक्तं भवता । उक्तं च । यतः ।
अन्यजो ऽपि यदा साक्षी । विवादे संप्रजायते।
न तत्र युज्यते दिव्यं । किं पुनर् वनदेवताः ॥३९२॥ तद् अस्माकम् अय् अत्र विषये महत् कौतुकम् अस्ति । प्रत्यूषे युवाभ्याम अय् अस्माभिः सह तब वनोद्देशे गन्तव्यम् । ततस् । नैर् द्वाव् अपि प्रतिभुवं गृहीत्वा गृहं प्रति विसर्जितौ । अथ दुष्टबुद्धिना स्वगृहं गतेन पिता प्रार्थितः । तात । मत्पाणिगतास ते दीनाराः । किं तु त्ववचनमात्रापेक्षिणस तिष्ठन्ति । अतो ऽहम् ' अद्य राबाव अदृश्यम् एव पूर्वोत्खातनिधानसंनिधानं प्रदेशस्यशमीतरुकोटरांन्तरे त्वां स्थापयिष्यामि। प्रातस त्वया धर्माधिकरणिकप्रत्यक्ष साक्षित्वं विधेयम । ततः पित्राभिहितम। पुत्र । विनष्टाव 12 आवाम् । यत्कारणम् । अनुपाय एषः । साधु चेदम उच्यते ।
उपायं चिन्तयेद् विद्वान । अपायम अपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य । नकुलैर् भक्षिता बकाः ॥३९३॥ दुष्टबुद्धिर् अब्रवीत् । कथम् एतत् । पिता कथयति ।
॥ कथा २७ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे बककदम्बकसनाथो वटपादपः । तस्य 13 कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकबालकान्य अजातपक्षाण्य् एव सदैव भक्षयन कालं नयति । अथैको बकः सर्पभक्षितशिशुवैराग्यात सरस्तीरम आसाद्य बाष्पभरम उत्सृजन अधो- 21 मुखम् तिष्ठति । तं च तथाविधम अवलोक्यैकः कुलीरकः प्रोवाच । माम । किम् एवम् अद्य रुद्यते । बक आह । भद्र । किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org