________________
108
Book I. THE ESTRANGING OF FRIENDS%3B
Tale xxv: Ape, glow-worm, and officious bird.
Frame-story.
Frame-story.
तत् सर्वथा किं तवापसदस्योपदेशेन । उक्तं च।
नानाम्यं नाम्यते दारु । न शस्त्र क्रमते रमनि।
सूचीमुख्या वाशिष्ये । नोपदेशः सुखावहः ॥३८३॥ दमनक आह । कथम् एतत् । सो ऽब्रवीत्।
॥ कथा २५ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे वानरयूथम । तच् च हेमन्तकाले । ऽतिविह्वलं निशामुखे खद्योतम् अपश्यत् । तच च तं दृष्ट्वा । अग्निर् अयम । इति मत्वा यानाद् आहृत्य शुष्कतृणपणैर् अवच्छाद्य प्रसारितभुजकक्षाकुक्षिवक्षःप्रदेशान कराडूयमानं तापम- " नोरथसुखं किलानुभवति स्म । अथ तत्रैकः शाखामृगो विशेषतः शीतार्तस् तहतमना मुहुर् मुहुम तम् एवोपाधमत् । अथ सूचीमुखी नाम पंक्षिणी वृक्षाद् अवतीर्य दैवाहतात्मोपघाताय तम 12 उवाच । भद्र । मा क्लिश्यताम् । नायं वहिः । खद्योतो ऽयम । इति । अथासौ तवचनम अनादृत्य पुनर् धमति । ततस तयासकृन निवार्यमाणोऽपि नोपशाम्यति । अथ किं बहुना। तावत् 15 तया कर्णाभ्यर्णम् आगत्य प्रबलम उद्देजितः । यावत् तेन सा गृहीत्वा शिलायाम आस्फालिता पिष्टवक्तूनेत्रशिरोगीवा पञ्चत्वम आप ॥ अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दारु । इति । अथवा।
किं करिष्यति पाण्डित्यम् । अपाचे प्रतिपादितम्।
सपिधानघटान्तःस्थः । प्रदीप व वेश्मनि ॥३८४॥ तन नूनम् अपजातस् त्वम् । उक्तं च ।
जातः पुत्रो ऽनुजातश च । अभिजातस तथैव च । अपजातश् च लोके ऽस्मिन् । मन्तव्याः शास्त्रदर्शिभिः ॥३८५॥ मातृतुल्यगुणो जातस् । त्व अनुजातः पितुः समः। अभिजातोऽधिकस् तस्माद। अपजातो धमाधमः ॥३८६॥
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org