________________
OR, THE LION AND THE BULL. Book I.
Tale xxiii: Maid weds a serpent.
105
१ अवितथास् तस्य व्याहारा भवन्तु । इति जगाद । क्रमेण संजातगर्भा प्रसवकाले सर्प सुषुवे । तं दृष्ट्वा । त्यज्यताम् अयम् । इत्य् अशेषपरिजनवचनान्य अनादत्य प्रगृह्य स्नपयित्वा पुरवात्सल्याद् : विपुलशुचिभाण्डे ऽवस्थाप्य क्षीरनवनीतादिभिर् उपबंहितशरीरः कतिपयैर् एव दिवसैर् असौ प्रौढीकृतः । एकदा तु ब्राह्मणी बाष्पावरुद्धवदना प्रतिवेश्मकपुत्रविवाहोत्सवम् अवलोक्य । भारम् अब्रवीत् । सर्वथैव ममोपरि तवावज्ञा । येन मम दारकस्य विवाहोत्सवाय न यतसे । तच छुत्वा ब्राह्मणः प्राह । आर्ये । यदि परं पातालम अनुप्रविश्य वासुकिम् अभ्यर्थये ।" मूढे । को ऽन्यो ऽस्य सर्पस्य स्वदारिकां प्रयच्छति । इति । एवम उक्ते सविशेषं दीनवदनां ब्राह्मणीम् अवलोक्य तदुपरोधाद् बहु पाथेयं गृहीत्वा प्रियकलत्रतया देशान्तरं पर्यटन कतिपयैर् मासैर 12 दूरदेशावस्थितं कुत्कुटनगरनामाधिष्ठानं प्राप्तः । तत्र च परस्परपरिज्ञातसद्भावसुखसंश्रयणीयसंबन्धिकगृहे स्नानभोजनादिभिर् उपचर्यमाणस तां निशाम अतिवाह्य प्रभातसमये तं ब्राह्मणम् 16 अभिवाद्य यावत् प्रस्थितः । तावत् तेनाभिहितः । किमर्थ भवान इहागतः । कुत्र वा यास्यति । इत्य उक्ते ऽसाव् आह । पुत्रयोग्यां दारिकाम् अन्वेष्टुम् अहम आगतः । इति श्रुत्वा ब्राह्मणो ऽब्रवीत्। 18 यद्य् एवम् । ततो ममेयम् अतिसुरूपा दारिका । भवांश च ममापि प्रभविष्णुः । तद् गृह्यताम् इयं स्वपुत्राय । इत्य् अभिहिते ब्राह्मणस तदारिकां सपरिजनां गृहीत्वा स्वाधिष्ठानं प्रत्यागतः । । अथ तस्याः परमलावण्याद्भुतगुणोपेताम असाधारणां रूपसंपदम अभिवीक्ष्य प्रीतिविस्फारितनयना जनपदास तत्परिजनम अब्रुवन् । कथं सद्भिर् ईदृशं कन्यारत्नं सर्पस्योपपादितम् । इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org