SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS%3B 104 Talexxii: King, minister, and false monk. Tale xxiii: Maid weds a serpent. उपगतं विकसितवदनकमलं किम अय् आश्चर्यम् इव मन्त्रयमाणम् । विदिततवश च प्रणम्योक्तवान् । जयतु देवो देवानां प्रियः । इति । ततो राजा मन्त्री कुशलं पृष्ट उक्तश च । जानाति s भवान अमुम् आचार्यम् । असाव् आह । बहूनाम् आचार्याणां प्रजापतिभूतः कथं न ज्ञायते । श्रूयते चास्याचार्यस्य सुरलोके गमनम्। तत् किं सत्यम। राजाह। सर्वम अवितथम् । यद् भवता । श्रुतम् । इति । ततः क्षपणको ऽब्रवीत् । यद्य् अस्य मन्त्रिणः कौतुकम् । ततः पश्यत्व एषः । एवम उक्त्वा मठिकाभ्यन्तरम अनुप्रविश्य सार्गलं हारं कृत्वा स्थितः । ततो मुहर्तमाबापगमे मन्त्रिोक्तम् । देव । कस्यां वेलायाम् अयम् आगमिष्यति । पार्थिवः प्राह । किम् इति त्वरसे । यतो ऽसौ स्वकलेवरं मठिकाभ्यन्तरस्थं कृत्वान्येन दिव्यशरीरेणागच्छति । असाव् आह । यदि 12 सत्यम् एवेदम् । तदानीयताम् अग्निकाष्ठनिचयः । येनेमां मठिकाम आदीपयामि । भूपतिर् आह । किंनिमित्तम् । इति । सचिवेनोच्यते । देव । अस्मिन कलेवरे दग्धे तेनैव सुरलोकयायिना 15 शरीरेण यथासौ युष्मत्पार्श्ववर्ती भवति । श्रूयते चैतत् । ॥ कथा २३॥ १ अस्ति राजगृहे नगरे देवशर्मा नाम ब्राह्मणः । तस्य ब्राह्मणी 18 निरपत्यतया प्रातिवेश्मकार्भकान दृष्ट्वा भृशं रुरोद । अथैकस्मिन दिने ब्राह्मणेनाभिहितम् । भद्रे' अलं संतापेन । पश्य ' अम्ब ' अहं पुत्रकामाम् इष्टिं कुर्वाणः केनाय अदृष्टेन स्पष्टाक्षरम अभिहितः। 21 यथा । ब्राह्मण । सर्वमनुथोतररूपसत्वसौभाग्यान्वितः पुचस ते भविष्यति । इति श्रुत्वा परमप्रमोदापूर्यमाणहृदया ब्राह्मणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy