SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 101 OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. द्विपाशीविषसिंहामिाजलानिलविवस्वताम्। बलं बलवतां दृष्टम् । उपायाक्रान्तिनिष्फलम् ॥३६४॥ तद् यदि । मन्त्रिपुत्रो ऽहम् । इत्य अवलेपाद् अतिभूमिं गतोऽसि । तद् अप्य आत्मवि- 3 नाशस् तव । उक्तं च । यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते या बुद्धर् न विधेयतां प्रकुरुते धर्मे न या वर्तते । लोके केवलवाक्यमाचरचना यां प्राप्य संजायते या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ॥३६५॥ ardi तद् अत्र शास्त्रेष्व अभिहितः पञ्चाङ्गो मन्त्रः । तद यथा । कर्मणाम् आरम्भोपायः । पुरुषद्रव्यसंपत । देशकालविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश् च । इति । सो ऽयम अधुना स्वामिनो महात्ययो वर्तते । तद् अत्र यदि तव शक्तिर् अस्ति । तद् विनिपातप्रतीकारश चिन्यताम् । *भिन्नसंधाने हि मन्त्रिणां बुद्धिपरीक्षा । तत् । मूर्ख। 12 तत् कर्तुम असमर्थस् त्वम् । यतो विपरीतबुद्धिर् असि । उक्तं च। नाशयितुम् एव नीचः। परकार्य वेत्ति न प्रसाधयितुम् । पातयितुम् अस्ति शक्तिर् । नाखोर् उद्धर्तुम् उत्रिपिटिम् ॥३६६॥ ar 15 अथवा न तवायं दोषः । अपि तु स्वामिन एव । यस तव मन्दमतेर् वाक्यं श्रद्दधाति ।। उक्तं च। मदादिक्षालनं शास्त्रं । मन्दानां कुरुते मदम्। चक्षुःप्रबोधनं तेज । उलूकानाम इवान्ध्यकृत् ॥३६७॥ 18 ज्ञानं मददर्पहरं । माद्यति यस तेन तस्य को वैद्यः। अमृतं यस्य विषायति । तस्य चिकित्सा कथं क्रियते ॥३६८॥ ir तं च कृच्छ्रावस्थं स्वामिनं दृष्ट्वा करटकः परं विषादम अगमत् । कष्टं कष्टम् इदम् 21 आपतितं स्वामिनोनयोपदेशात् । अथवा साध्व इदम् उच्यते । नराधिपा *नीचमतानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये। विशन्ति ते दुर्गममार्गनिर्गमं सपत्नसंबाधम् अनर्थपञ्जरम् ॥३६९॥ upa तत् । मूर्ख । सर्वो ऽपि जनो गुणवत्परिजनस्य स्वामिनः सेवापरिग्रहं करोति । तत् कुतो 27 युष्मद्विधन पशुनेव केवलभेदविदासन्मन्त्रिणा स्वामिनो गुणवत्सहायसंपत् । उक्तं च । गुणवान् अप्य असन्मन्त्री । नृपतिर् नाधिगम्यते । प्रसन्नवादुसलिलो। दुष्टग्राहो यथा ह्रदः ॥३७०॥ वं तु प्रायश आत्मभूत्यर्थ विविक्तम् एव राजानम् इच्छसि । तत् । मूर्ख। किं न वेसि । आकीर्णः शोभते राजा। न विविक्तः कदाचन । येतं विविक्तम रच्छन्ति । ते तस्य परिपन्थिनः ॥३७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy