________________
100
Book I. THE ESTRANGING OF FRIENDS%3B
Frame-story: Lion and bull.
____ एवं स्वचेतसि निश्चित्योद्विपमना मन्दं मन्दं गत्वा दमनकाख्यातानुकाररूपं सिंह दृष्ट्वा स्थानान्तर उपविश्याचिन्तयत् । अहो। विषमता प्रभूणाम्। उक्तं च ।
अन्तर्गुढभुजंगमं गृहम् इव व्यालाकुलं वा वनं ग्राहाकीर्णम् वाभिरामकमलच्छायासनाथं सरः। नित्यं दुष्टजनैर् असत्यवचनैः हुदैर् अनाकृितं
दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकः ॥ ३५६ ॥ Sardi 6 पिङ्गलको ऽपि दमनकजल्पिताकारं तम् अवलोक्य सहसा तस्योपरि पपात । अथ संजीवकस् तन्नखकुलिशाग्र*विकर्तितशरीरः स्वशृङ्गाग्राभ्यां सिंहस्योदरप्रदेशम उल्लिख्य कथम् अपि तस्माद् अपेत्य पुनर् अपि शृङ्गाभ्यां हन्तुम् इच्छन योबुम अवस्थितः।
अथोभाव अपि तौ पुष्पितपलाशप्रतिमौ परस्परं वधकाशिणी दृष्ट्वा करटकः साक्षेपं दमन कम उवाच । भो मूढमते । यद् अनयोर् विरोधस त्वया कृतः । तन् न साधु विहितम् । यतः सकलम् अपि वनम् इदम् आकुलीकृतं भवता । ततस त्वं न नीतितत्त्वं 12 वेत्सि । उक्तं च।
कार्याण्य उत्तमदण्डसाहसफलान्य आयाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः सानैव ते मन्त्रिणः । निःसाराल्पफलानि ये व अविधिना वाञ्छन्ति दण्डोद्यमस
तेषां दुर्नयचेष्टितैर् नरपतेर् आरोप्यते श्रीस तुलाम् ॥ ३५७॥ sardi तत् । मूर्ख।
साम्नवादी प्रयोक्तव्यं । कार्याकार्यविचक्षणः।
सामसिद्धा हि विधयो । न प्रयान्ति पराभवम् ॥ ३५८॥ तत् । मूढ । मन्त्रिपदम अभिलषसि । न च सामनामापि जानासि । तद् वृथा मनोरथो 21 ऽयं ते। यद् दण्डविधेर् इति । उक्तं च ।
सामादिर् दण्डपर्यन्तो । नयः प्रोक्तः स्वयंभुवा। तेषां दण्डस तु पापीयांस । तस्माद् दण्डं विवर्जयेत् ॥ ३५९ ॥ नोन्मयूखेन रत्नेन । नातपेन न वह्निना।
साम्नैव प्रलयं याति । विद्वेषिप्रभवं तमः ॥३६०॥ किं च। सानैव यत्र सिद्धिः स्यात् । तत्र दण्डं न योजयेत्।
यदि शर्करया पित्तं । शाम्येत् तत् किं पटोलया ॥३६१॥ अन्यच् च। ये सामदानभेदास । ते किल बुद्धेर् अपावृतं द्वारम् ।
यस् तु चतुर्थोपायस् । तम आहुर आर्याः पुरुषकारम् ॥३६२॥ बुद्धिर् या सत्त्वरहिता । स्त्रीत्वं तत् केवलं मतम्। शौर्य चानयसंपन्नं । तत् पशुत्वं न संशयः ॥३६३॥
ar 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org