SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. 97 Tale xxi: Jackal outwits camel and lion. ॥ कथा २१॥ अस्ति कस्मिंश्चिद् वनोद्देशे क्रव्यमुखचतुरकशङ्ककाख्यैर् वृकजखककरभैर मन्त्रिभिः सहिती वजदंष्ट्रो नाम सिंहः । स कदाचिन ३ मतगजेन सह युध्यमानम् तदीयदन्तकोटिपाटितवपुर् एकान्तम आस्थितः । ततः सप्तदिनोपवासपीडितः शुन्क्षामतनुस तान क्षुधा बाध्यमानान सचिवान आह । किंचिद् अन्विष्यतां वने सत्वम् । येनाहम एतदवस्थो ऽपि भवतां तृप्तिम उत्पादयामि । इति । अथ तदाज्ञासमकालम एव ते वने पर्यदिताः । परं न किंचिद आसादितम् । अथ चतुरकश चिन्तयाम आस । यदि शङ्कुकर्णो " ऽयं व्यापाद्यते । तदा सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् व्यापादयिष्यति । अथवा बुद्धिप्रभावेण स्वस्वामिनं तथा प्रबोधयिष्यामि । यथा व्यापादयति । तथा च। 12 अवध्यं वाथवागम्यम् । *अकृत्यं नास्ति किंचन। लोके बुद्धिमताम अब । तस्मात् तां योजयाम्य अहम् ॥३५४॥ एवं संचिन्य शङ्कुकर्णम इदम आह । भोः शङ्कुकर्ण । स्वामी पथ्यं 15 विना क्षुधया परिपीड्यते । स्वाम्यभावाट् अस्माकं चैव ध्रुवं मृत्युः । तत् त्वदर्थ स्वाम्यर्थं च किंचिद् वदिष्यामि । तच् छ्यनाम । शङ्कुकर्ण आह । भी भद्र । शीघ्रतरं निवेदय । येन त्वद- 18 चनम अविकल्पः करोमि । अपरं स्वामिनो हिते कृते सुकृतशतं कृतम् । चतुरक आह । भो भद्र । आत्मशरीरं द्विगुणलाभेन प्रयछ । येन ते द्विगुणं शरीरं भवति । स्वामिनः प्राणयात्रा 1 भवति । तच् छ्रुत्वा शङ्ककर्ण आह । भद्र । यद्य् एवम् । तन मदीयम एवेदं प्रयोजनम् । तद् उच्यतां स्वामी । एतद् एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy