________________
• Book I. THE ESTRANGING OF FRIENDS3B
98
Tale xxi: Jackal outwits camel and lion.
क्रियताम् । इति । परम अत्र विषये धर्मराजः प्रतिभूर याचनीयः।
एवं निश्चित्य सर्वे ते सिंहसकाशम् आजग्मुः । ततश चतुरक आह । देव । न किंचिद् अद्य सत्वम आसादितम् । भगवान आदित्यो ऽय् आसन्नास्तमयः । तच् छ्रुत्वा सिंहः परं विषादम अगमत् । अथ चतुरक आह । देव । एवम् असौ शङ्कुकर्णो ऽभिधत्ते । यदि धर्मराजं प्रतिभुवं दत्वा द्विगुणवृया पुनः प्रयच्छति । तदाहं स्वशरीरं प्रयच्छामि । इति । सिंह आह । भद्र । सुन्दरम इदम् । एवं क्रियताम् । तथा । इति प्रतिपन्ने सिंहतलाहतो. वृकशृगालाभ्यां विदारितकुक्षिः शङ्कुकर्णः पञ्चत्वम् उपगतः । अथ चतुरकश चिन्तयाम आस । कथम् अयम् एकाकिनी मे भक्ष्यः स्यात् । इति मनसा संप्रधार्य सिंहं रुधिरसिताङ्गं दृष्ट्राब- 12 वीन् । गच्छतु स्वामी नद्यां स्नानदेवतार्चननिमित्तम् । अहं च क्रव्यमुखसहितो भक्ष्यम् इदं रक्षस तिष्ठामि । इति श्रुत्वा सिंही नद्यां जगाम । गते च सिंहे चतुरकः क्रव्यमुखम् आह । भोः 15 क्रव्यमुख । क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागछति । तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं स्वामिनो ऽये त्वां निर्दोषं करिष्यामि । तस्य वचनेन किंचिन मांसं यावद् 18 आस्वादयति । तावच चतुरकेणाभिहितम् । भोः क्रव्यमुख । दूरम अपसर । आगच्छति स्वामी । तथानुष्ठिते सिंहः समागत्योष्ट्र रिक्तीकृतहृदयं दृष्ट्वा सकोपम् इदम् आह । भोः । केनायम् उष्ट्र 1 उच्छिष्टतां नीतः । येन तम् अपि व्यापादयामि । इत्य् अभिहिते क्रव्यमुखश चतुरकमुखम् अवलोकयति । किल वद किंचित् । येनायम् उपशाम्यति । इति । अथ चतुरको विहस्याब्रवीत् । भोः। 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org