________________
Book I. THE ESTRANGING OF FRIENDS;
Tale xv: Strand-bird and sea.
Frame-story.
तद् आगच्छ ' येन समुद्राद् अण्डकान्य् आदाय टिट्टिभं च संतोष्य सुरकार्यायामरावतीं गच्छावः । तथेति प्रतिपन्ने समुद्रं निर्भयें भगवता धनुष्य् आग्नेयं शरं संधायाभिहितम् । भो दुरात्मन् दीयताम् अस्य टिट्टिभस्याण्डकानि । नो चेत् । त्वां स्थलतां नेष्यामि । इति श्रुत्वा समुद्रो ऽपि भयचकित सकलपरिवारो वेपमानस् तान्य् अण्डकानि गृहीत्वा भगवविदितं टिट्टिभस्य • समर्पयाम् आस ॥
1
अतोऽहं ब्रवीमि । शत्रोर् बलम् अविज्ञाय । इति । अवगततत्त्वार्थश् च संजीवकस तम् अपृच्छत् । वयस्य । कथय । कस् तस्य युद्धमार्गः । इति । सो ऽब्रवीत् । अन्यदासौ 9 *स्रस्ताङ्गः शिलातलस्थितो यथा तथैवासीत् । अद्य यदि प्रथमम् एव संगृहीतलाङ्गूलः संहितचतुश्चरणस्तब्धकर्णो दूराद् एव त्वत्संमुखम् ईक्षमाणस् तिष्ठति । ततस् त्वयावगन्तव्यः । ममोपरि द्रोहबुद्धिः । इति ।
निस्त्रिंशं हृदयं कृत्वा । वाणीं चेचुरसोपमाम् ।
विकल्पो ऽत्र न कर्तव्यो । हन्यात् पूर्वापकारिणम् ॥ ३५२ ॥ अन्यच् च । निहतो ऽप्य् एष संजीवको ऽस्माकम् उपभोग्यो भविष्यति । यतः । परस्य पीडनं कुर्वन् । स्वार्थसिद्धिं च पण्डितः । गूढबुद्धिर् न लक्ष्येत । वने चतुरको यथा ॥ ३५३ ॥ करटक आह । कथम् एतत् । सो ऽब्रवीत् ।
Jain Education International
96
12
I
एवम् उक्का दमनकः करटकसकाशं गतः । तेन चाभिहितम् । किम् अनुष्ठितं भवता । सोऽब्रवीत् । *भेदितौ तौ तावत् परस्परं मया । करटक आह । किं सत्यम् । दमनको ऽब्रवीत् । फलेन ज्ञास्यति भवान् । करटक आह । को ऽत्र विस्मयः । उक्तं च । भिनत्ति सम्यक् प्रहितो । भेदः स्थिरमतीन् अपि । भूधरान् संहितशिलान् । महापूर इवाम्भसाम् ॥ ३४९ ॥ दमनक आह । भेदम् उत्पाद्य सर्वथा पुरुषेणात्महितं कार्यम् । उक्तं च । यो ऽधीत्य शास्त्रम् अखिलं । शास्त्रार्थे तत्त्वतश् च विज्ञाय । आत्महितं न हि कुरुते । श्रमावस तस्य किं शास्त्रैः ॥ ३५० ॥ करटक आह । तत्त्वतो न किंचिद् आत्महितम् । यतः । कृमयो भस्म विष्ठा वा । निष्ठा यस्येयम् ईदृशी ।
स कायः परपीडाभिः । पोष्यते यत् स को नयः ॥ ३५१ ॥
दमनक आह । अनभिज्ञो ऽसि मन्त्रिकुलमूलवेतनस्य प्रकृतिकुटिलस्य नीतिमार्गस्य | 24
तत्रेत्य_उक्तम् ।
Is
For Private & Personal Use Only
ar
15
18
21
27
30
www.jainelibrary.org