________________
95
OR, THE LION AND THE BULL. Book I.
Tale xv: Strand.bird and sea.
भो दूत । किं मया कुभूत्येन स्वामी करिष्यति । दूत आह । भी गरुड । कदाचिद् भगवता भवन्तं प्रति विरूपम् अभिहितम् । तत् कथं भगवन्तं प्रत्य अभिमानं करोषि । गरुड आह । भगवतः ४ समाश्रयभूतेन समुद्रेणास्मद्धृत्यस्य टिटिभस्याण्डकान्य अपहृतानि। तद् यदि तस्य नियहं न करोमि । ततो भगवतो ऽहं न भत्यः । इति त्वया स्वामिने निवेदनीयम् । अथ दूतमुखेन विष्णुः प्रणय- 6 कुपितं गरुत्मन्नं विज्ञाय चिन्तयाम आस । अहो । अतिकोपो वैनतेयस्य । तत् स्वयम एनं गत्वा संबोध्य संमानपुरःसरम आनयामि । उक्तं च।
शक्तं भक्तं कुलीनं च । न भृत्यम अपमानयेत् ।
पुत्रवल लालयेन नित्यं । यदीच्छेच् *छियम आत्मनः ॥३४५॥ किं च।
स्वामी तुष्टो ऽपि भुत्यानां । मानमात्रं प्रयच्छति । ते तु संमानितास् तस्य । प्राणैर् अय् उपकुर्वते ॥३४६॥ इति संप्रधार्य सत्वरं गरुडसकाशम् अगमत् । सो ऽपि स्वस्वामिनं 15 गृहागतम् अवलोक्य नपाधोमुखः प्रणम्योवाच । भगवन् । त्वदाश्रयवशोन्मत्तेन समुद्रेण । पश्य । मे भृत्यस्याण्डकान्य अपहृत्य ममापमानं विहितम् । भगवल्लज्जया मया विलखितम् । नो 18 चेत् । एनम् अहं स्थलताम् अद्यैव नयामि । उक्तं च । येन स्याल लघुता लोके । पीडा च प्रभुचेतसि ।
प्राणत्यागे ऽपि तत् कर्म । न कुर्यात कुलसेवकः ॥३४७॥ इत्य् उक्ते भगवान आह । भी वैनतेय । सत्यम उक्तं भवता । यतः।
सदा भृत्यापराधेन । स्वामिनं दण्डयेत् किल। यदि क्रूरं च दुष्टं च । स्वामी भृत्यं न मुञ्चति ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org