SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Eook I. THE ESTRANGING OF FRIENDS; Tale xv: Strand-bird and sea. Tale xx: Lion and ram. Tale xv: Strand-bird and sea. समये तैः पक्षिभिर् निवेदितं समुद्रकृतम् अपत्यहरणवियोगदुःखं स्वामिने पक्षिराजाय । यथा । देव । त्वयि नाथे प्रतपति चचुभरणमात्रजीविनो भोजनदौर्बल्याद् अस्मान् परिभूय समुद्रः शिशून अपहृतवान् । श्रूयते च । प्रच्छन्नं किल भोक्तव्यं । दरिद्रेण विशेषतः । पश्य भोजन दौर्बल्याद् । धुडः केसरिणा हतः ॥ ३४४॥ गरुडः पृच्छति । कथम् एतत् । वृद्धपक्षी कथयति । Jain Education International 94 3 ॥ कथा २० ॥ 9 अस्ति कस्मिंश्चिद् वनोद्देशे स्वयूथच्युतो हुडः । स च बृहत्केसर- ० शृङ्गपञ्जरः कठिनगात्रो वनं परिभ्रमति । अथ कदाचित् तत्र वने सकलमृगपरिवृतः सिंहस् तम् अपश्यत् । दृष्ट्वा च तम् अदृष्टपूर्व सर्वतः सततोड्डुषितगात्रम् अव्यक्ततनुं क्षुभितहृदयो भयम् उपागतो । नूनम् अयं मत्तो ऽतिबलवान् । इति मन्यते । अत एवात्र विशङ्कः परिभ्रमति । इति विचिन्त्य शनैः शनैर् अपससार । अथान्येद्युस् तम् एव हुई वनभुवि तृणानि चरन्तं 15 दृष्ट्वा सिंहो व्यचिन्तयत् । कथम् असौ तृणाशी । तन् नूनम् अनेनाहारानुरूपबलेन भवितव्यम् । इति विचिन्त्य सहसोपसृत्य हुडो व्यापादितः ॥ For Private & Personal Use Only 6 12 अतो ऽहं ब्रवीमि । प्रच्छन्नं किल भोक्तव्यम् ' इति । इत्य् एवं कथयतां तेषां पुनर् विष्णुदूतः समागत्य प्राह । भो गरुत्मन् ' स्वामी नारायणस् त्वाम् आज्ञापयति । अमरावतीगमनाय शीघ्रम् आगम्यताम् ' इति । तद् आकर्ण्य गरुडः साभिमानं तम् आह । 21 18 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy