SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. 93 Tale xix: Goose and fowler. Tale xv: Strand-bird and sea. वल्ली तं वृक्षं समन्ताद् आरूढवती । अथ कदाचित् कश्चिद् व्याधस् नेषां हंसानाम आहारार्थ विनिर्गतानां लतानुसारेण वटवृक्षे समारुह्य हंसावासेषु पाशान आसज्य स्वकीयावासं ययौ। अथ ते हंसाः कृताहारविहारा निशायां यावद् आगताः । तावत् सर्वे ऽपि पाशेर् बद्धाः । अथ वृद्धहंसो ऽब्रवीत् । इदं तद् आपतितं पाशबन्धनव्यसनम । यन मम वचनम अनादत्य 6 युष्माभिश चेष्टितम् । इति । तद् इदानीं सर्वे विनष्टाः *स्मः। ततस ते हंसास तम ऊचुः । आर्य । एवम् अवस्थिते किम अधुना कर्तव्यम् । अथासाव् आह । यदि मम वचनं *कुरुथ ।" तदा यावद् असो व्याधः समभ्येति । तावद् भवद्भिर् मृतकरूपेणासितव्यम् । व्याधस तु । मृता एवैते । इति मत्वा यावत् सर्वान अपि भूमौ प्रक्षिपति । ततः सर्वैः पतितस तस्योत्तरत एककालम 12 उत्पतितव्यम् । अथ वृत्ते सुप्रभाते व्याधः समायातो यावत् पश्यति । तावत् ते सर्वे ऽपि मृतप्रायाः । ततस् तेन विश्वस्तमतिना पाशाद् अवमुच्य क्रमेण सर्वे भूमौ प्रक्षिप्ताः । तं च 15 ते ऽवतरणाय कृतोद्यमं दृष्ट्वा वृद्धहंसदत्तमतिप्रमाणेन सर्वे ऽपि समकालम उत्पतिताः ॥ ___ अतो ऽहं ब्रवीमि । श्रव्यं वाक्यं हि वृद्धानाम् । इति । आ- 18 ख्याते चाख्यानके सर्वे ते पक्षिणो वृद्धहंसान्तिकं गत्वापत्यहरणदुःखं निवेदितवन्तः। अथ वृद्धहंसेनोच्यते । अस्माकं सकलपक्षिणां गरुडो राजा। तद् अत्र समयोचितम् । सर्व एव भवन्त एककालम 1 आक्रन्दारवेण गरुडम उद्देजयन्तु । एवं च स नो दुःखम् अपनेयति । इति संप्रधार्य गरुडसकाशं गताः । गरुडो ऽपि देवासुरसंयामनिमितं समाहूतो भगवता नारायणेन । ततस् तस्मिन्न एव 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy