________________
92
Book I. THE ESTRANGING OF FRIENDS; Tale xv: Strand-bird and sea.
Tale xix: Goose and fowler.
अतो ऽहं ब्रवीमि । *चटिका काष्ठकूटेन । इति । टिटिभः प्राह । एवं भवतु । सुहृत्समुदायेन समुद्रं शोषयिष्यामि । इति निश्चित्य सर्वान पक्षिणः समाहूय स्वापत्यापहारदुःखं निवेदि- 3 तम् । ते ऽपि तदुःखप्रतीकारनिमितं समुद्रं पौस ताडयितुम
आरब्धाः । तत्रैकेन पक्षिणाभिहितम् । नैवम् अस्मन्मनोरथाः सिध्यन्ति । किं तु समुद्रम एव लोष्टैः पांसुभिश च पूरयामः । 6 इत्य् उक्ते सर्वे ऽपि चक्षुपुटसंगृहीतपांसुलोष्टनिचयाः समुद्रं पूरयितुम आरेभिरे । अथान्यो ऽब्रवीत् । सर्वथाशक्ता वयं महोदधिवियहस्य । तद् अत्र यत् प्राप्तकालम् । तद् उपदिशामि । " अस्त्य् एको वृद्धहंसो न्यग्रोधपादपवासी । स चास्माकं समयोचितहितबुद्धिं दास्यति । अतस तं गत्वा पृच्छामः । उक्तं च ।
श्रव्यं वाक्यं हि वृद्धानां । ते वृद्धा ये बहुश्रुताः । हंसयूथं वने बद्धं । वृद्धबुद्या विमोचितम् ॥३४३॥ पक्षिण ऊचुः । कथम् एतत् । सो ऽब्रवीत् ।
॥ कथा १९ ॥ १ अस्ति कस्मिंश्चिद् वनोद्देशे महाशाखो वटवृक्षः । तत्र च हंसकुलं प्रतिवसति स्म । अथ तस्य वटस्याधस्तात् कोशाम्बी नाम वल्ली प्रादुर्भूता । अथ तेन वृद्धहंसेनोक्तम् । येयं वल्ल्य् अमुं वटवृक्षम 18 आरोहति । सास्माकम् अतिविषमा । अनेनाश्रयेण कश्चिद् इहारुह्य कदाचिद् अस्मान् हन्याद् इति । यावद् इयं लघी सुखच्छेद्या । तावद अपनीयताम् । इति । अथ तस्य वचनम 21 अवगणय्य ते न च तां वल्लीं छिन्नवन्तः । अथ कालक्रमात सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org