________________
91
OR, THE LION AND THE BULL. Book I.
Tale xviil: Sparrow's allies and elephant.
तथा च ।
स सुहृद् व्यसने यः स्यात् । स पिता यस तु पोषकः ।
तन मित्रं यत्र विश्वासः । सा भार्या यत्र निवृतिः ॥३४१॥ ३ तत् पश्य मे बुद्धिप्रभावम् । परं किं तु ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तां समाहूयागच्छामि । येन स दुरात्मा दुष्टगजो वध्यते । अथासौ *चटिकया सह मक्षिकाम आसाद्य । प्रोवाच । भद्रे । इयं मम सुहच *चटिका दुष्टगजेनाण्डकविस्फोटेन पराभूता । तत् तस्य वधोपायम अनुतिष्ठतो मे साहाय्यं कर्तुम अर्हसि त्वम् । मक्षिकाह । भद्र । किम् उच्यते ऽत्र विषये। परं " ममापि परमसुहन मेघदूतो नाम मण्डको ऽस्ति । तम् अपि समाहूय यथोचितं कुर्मः । उक्तं च । यतः । हितैः साधुसमाचारैः । शास्त्रज्ञैर् मतिशालिभिः। 12
कथंचिन न विकल्पन्ने । विवद्भिश चिन्तिता नयाः ॥३४२॥ अथ त्रयो ऽपि गत्वा मेघदूतस्य समस्तम् अपि वृत्तान्तं निवेदयाम आसुः । अथ स प्रोवाच । कियन्मात्रो ऽसौ वराकः करी 15 महाजनस्य कुपितस्य । तत् । मक्षिके । त्वं गत्वा तस्य मदोद्धतस्य कर्णे शब्दं कुरु । येन त्वच्छब्दश्रवणसुखान निमीलिताक्षो भवति । ततश च काष्टकूटच स्फोटितनयनः पिपासा” गातटसंश्रितस्य 18 मम शब्दम आकर्ण्य जलाशयं *मत्वा समागच्छन गर्ताम आसाद्य पतित्वा पञ्चत्वं याति । अथ तथानुष्ठिते स मतगजो मक्षिकागेयसुखान निमीलितनेत्रः काष्ठकूटापहृतचक्षुर् मध्या- 1 हूसमये तृषार्तो धमन मण्डूकशब्दानुसारी गच्छन महतीं गर्ताम् आसाद्य पतितो मृतश च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org