________________
Book I. THE ESTRANGING OF FRIENDS; Tale xv Strand-bird and sea.
तन न भीः कार्या । मनुजपरिरक्षितायाः कस् ते पराभवं कर्तुं समर्थः । अथ प्रसूतायां टिट्टिभ्यां श्रुतपूर्वतदालापः समुद्र चिन्तयाम आस । अहो ' साध्व् इदम् उच्यते ।
उत्क्षिप्य टिट्टिभः पादौ । शेते भङ्गभयाद् दिवः । स्वचित्त्रकल्पितो गर्वः । कस्य नाम न विद्यते ॥ ३२९ ॥ तट अहम् एतदीयशक्तिं ज्ञास्यामि । अन्येद्युः प्राणयात्रां गतयोस् तयोर् अण्डकानि सविशेषप्रसारित कल्लोलहस्तैः कौतुकेनापहृतवान । अथायाता टिट्टिभी शून्यम् अपत्यस्थानं दृष्ट्वा भर्तारम् आह । पश्य मे यद् आपतितं मन्दभाग्यायाः । समुद्रेणाण्डकान्य् अद्यापहृतानि । उक्तस् त्वम् असकृन् मया । यद् अन्यत्र गच्छावः। परं यद्भविष्यवद् अल्पमतिर् न गतः । अहम् अधुना स्वापत्यनाशदुःखिता वही प्रवेक्ष्यामि । इति मे निश्चयः । टिट्टिभ आह । 12 भद्रे ! दृश्यतां तावन् मम सामर्थ्यम् । यावद् एनं दुष्टम् अम्बुनिधिं स्वचञ्च्वा शोषयामि । टिट्टिभी प्राह । आर्यपुत्र कस् ते समुद्रेण सह विग्रहः । तथा च ।
1
अविदित्वात्मनः शक्तिं ' परस्य च समुत्सुकः ।
गच्छन्न् अभिमुखो मोहान् । नश्येद् वह्नौ पतङ्गवत् ॥ ३३० ॥ टिट्टिभ आह । प्रिये मा मैवं वद ।
वालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् । तेजसा सह जातानां । वयः कुत्रोपयुज्यते ॥ ३३१॥
Jain Education International
"
88
तद् अनया चञ्वा सकलम् अपि तोयं शोषयित्वा जलधिं स्थलीकरिष्यामि । टिट्टिभी प्राह । भोः कान्त । यत्र जाहूवी सिन्धुश च नवनवनदीशतानि गृहीत्वा निरन्तरम् एव प्रविशतः ।
For Private & Personal Use Only
6
9
15
18
21
www.jainelibrary.org