________________
८६
श्री हीरसुन्दर' महाकाव्यम् (१) अहो इति परस्परसम्बोधने । (२) साहसताम् । “अहो महीयस्तव साहसिक्य"मिति नैषधे । (३) अन्यम् । (४) येन कारणेन । (५) न वाञ्छति । (६) चन्द्र-सिंह-सूर्यदीपाः( पैः) । (७) परापेक्षा क्रियेत । (८) साहाय्याय ॥१०॥
ततोऽन्यैः समं साधुभिः सूरिसिंहः, सर्मुद्दिश्य पूर्वां दिशं स 'प्रतस्थे । 'जिगीषुः समग्रान्दिगन्ताननेकै-रिवाऽखण्डलोऽम्भोधिनेमेनीकैः ॥११॥
(१) स्वपारिपार्श्वकभूतैरपरैर्मुनिभिः समम् । (२) मनसि कृत्वा । (३) प्रचलितः । (४) जेतुमिच्छुः । (५) सर्वान्-दशाऽपि हरितामवसानभूमीर्यावत् । (६) भूशक्रः । (७) कटकैः ॥११॥
'अलङ्कारमालां दधाना वसाना, 'दुकूलानि पुष्पाणि पाणौ प्रणीय । *कनी प्रागभूसम्मुखीना जयश्रीः, पुरः प्रादुरासेव मूर्त्ता मुनीन्दोः ॥१२॥
(१) आभरणश्रेणीम् । (२) क्षौमानि(णि) । (३) परिदधाना । (४) कुसुमानि । (५) करे । (६) कृत्वा । (७) कुमारिका । (८) प्रथममेव । (९) जयलक्ष्मीरिव । (१०) सम्मुखागता ॥१२॥
विधास्यामि सान्निध्यमभ्यास( श) एवा-ऽनिशं तस्थुषी ते किमेतद्विवक्षुः । असौ शासनस्वमंगाक्षी समेता, पुरः सौरभेयी बभूव व्रतीन्दोः ॥१३॥
(१) करिष्यामि । (२) अवसरे कार्यम् । (३) समीप एव । (४) स्थिता । (५) वक्तुमिच्छुः । (६) सिद्धायिकानाम्नी । (७) शासनदेवी । (८) धेनुः ॥१३॥
प्रशान्तै रसैः 'पूरित: पूर्णकामो, भवांस्तूंर्णमेवाऽस्तु मद्वन्मुनीन्दो !। सकान्तोत्तमाङ्गे स्थितः पूर्णकुम्भः, पुरोऽभूदितीव प्रभोर्वक्तुकामः ॥१४॥
(१) प्रकर्षेण शान्तनामभिः शमैः रसैः । (२) भृतः । (३) सिद्धाभिलाषः । (४) शीघ्रमेव । (५) ममेव । यथाहं जलैर्भूतः पूर्णकामोऽस्मि । (६) सधववशा शिरसि स्थितिः । (७) कथयितुमिच्छुः ॥१४॥
'प्रणीयोऽभिभूतिं सुधास्वःस्रवन्ती-तमीकान्तमुख्याखिलद्वेषभाजाम् । किमु श्लोक एतस्य मूर्त्तः समेतो, दधि व्यालुलोके पुरस्तादनेन ॥१५॥
(१) कृत्वा । (२) पराभवम् । (३) अमृत-सुरसरि-च्चन्द्रप्रमुखाणां शुभ्रश्रिया स्वेनाऽखिलानां वैरिणाम् । (४) यशः । (५) सूरेः । (६) दृग्गोचरः । (७) दृष्टम् ॥१५॥
1. मुनीन्दोः पुरः प्रादुरासेव मूर्ता जयश्रीः । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org