SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ एकादश: सर्ग: 'यदोजोजितः किं प्रसत्त्यै समेतः, पुरो 'हव्यवाहो गर्लेद्वायुवाहः । यतीन्द्रेण 'गर्जन्गजोऽप्यालुलोके, प्रयाणे प्रभोर्दुन्दुभीं दन्ध्वनन् किम् ॥९६॥ (१) यस्य प्रतापैर्जितः । (२) प्रसन्नीकरणाय । ( ३ ) वह्निः । ( ४ ) धूमरहित: । ( ५ ) गर्जारवं गलगर्जितं कुर्वाणः । ( ६ ) शब्दायमानः ॥ ९६ ॥ ८७ त्वयाऽऽरोपि केतुः कुले 'योगभाजा - मितीवांऽऽलपन्तं क्वणैः किङ्किणीनाम् । स्वमूर्ध्ना विहायः स्पृशन्तं स केतुं, मुमुक्षुक्षितीशोऽक्षिलक्षीचकार ॥९७॥ (१) योगीन्द्राणाम् । (२) कथयन्तम् । ( ३ ) निजमस्तकेन । ( ४ ) नभः-अत्युच्चा(च्चम्) । (५) ददर्श ॥९७॥ शब्दानिवांऽब्दान्पतद्वारिधारान् ध्वनद्धृङ्गनिर्यद्रसान्सान्द्रसालान् । “निरीक्ष्य क्षणं नृत्यतः "क्लृप्तकेका - रवान्केकिनो 'दक्षिणानै क्षताऽसौ ॥९८॥ ( १ ) गर्जायुक्तान् । ( २ ) मेघान् । (३) शब्दमयाना भ्रमरा यत्र तादृग्मकरन्दैर्व्याप्तान् । (४) द्रुमान् । ( ५ ) दृष्ट्वा । ( ६ ) रचितकेकाशब्दान् । (७) मयूरान् । (८) प्रभुदक्षिणदिग्भागवर्त्तिनः । (९) ददर्श ॥ ९८ ॥ 'अवामेव वामाऽप्यमुयऽनुकूलं, 'चुकूज द्रुमे 'भैक्ष्यमादाय 'देवी । “त्रिलोकीमिवाऽऽकारयन्सवनायै, विभर्दक्षिणीभूय चाषोऽप्युवाच ॥९९॥ ( १ ) अनुकूलेव । ( २ ) हितकृत् । ( ३ ) बभाषे । ( ४ ) भिक्षासमूहम् । 'चूणि' इति प्रसिद्धम् । ( ५ ) पोतकीनामा लोके देवीति प्रसिद्धा । (६) विश्वत्रयीम् । (७) सेवाकरणाय । (८) अपसव्यभागे भूत्वा तोरणं बद्ध्वा । ( ९ ) नीलपक्षी ॥९९॥ माग्रे 'द्विजिह्वा यथा यान्तिं दूरे, 'तवाऽपीति बभ्रुर्वदन्देक्षिणोऽभूत् । तवाऽधीश ! वामोऽप्यँवामोऽस्तु मद्व-त्खरस्य स्वरः किं ब्रवीतीव वामः ॥१००॥ (१) भुजगाः । (२) दूरीभवन्ति । ( ३ ) तथा तवाऽपि द्विरसना - मत्सरिणः- पिशुना दूरे यान्तु । ( ४ ) नकुल: । ( ५ ) वामाद्दक्षिणो जगाम । ( ६ ) प्रतिकूलोऽपि ! ( ७ ) अनुकूलः । (८) गर्दभः भुच्चकार ॥१००॥ तो 'जन्मिनामीप्सितं शम् दत्से, प्रभो! 'भिन्धि नस्तेन ती ( ति )र्यक्त्वदुःखम् । इतीव स्म विज्ञप् तित्तिरैणैः, स सव्यापसव्योद्भवद्ध्वानयानैः ॥१०१॥ (१) प्राणिनाम् । (२) वाञ्छितम् । (३) सुखम् । ( ४ ) ददासि । (५) भेदय1. of हीमु० । 2. भक्ष्य हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy