SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८८ श्री' हीरसुन्दर' महाकाव्यम् नाशय । (६) खरकोणः लोके 'गणेश' इति प्रसिद्धाः । मृगाश्च [तैः] । (७) वामदक्षिणप्रकटीभवच्छब्दगमनैः ॥ १०१ ॥ 'व्यपोहक दृक्त्वं त्वमस्मद्विगानं, रसन्तीति किं वायसास्तस्य वामा: । “शुभाया भैरवी वाऽभ्युपेता - ऽप्यंवामाऽभवद्धैरवी निःस्वनन्ती ॥१०२॥ (१) निवारय । ( २ ) काणत्वम् । (३) अस्माकमपवादम् । ( ४ ) शब्दायन्ते । (५) काका: । ( ६ ) [अ]दक्षिणाः । (७) कल्याणाय । (८) भैरवी भवानी सुरी वाऽऽगता । ( ९ ) दक्षिणा । (१०) पक्षिविशेषः । लोकप्रसिद्धा 'भैरव' इति नामा | ( ११ ) शब्दायमाना ॥ १०२ ॥ अमुष्य 'मुख्याः शकुनाः 'परःशताः, 'परेऽप्यभूवन्शुभशंसिनः पथि । तदर्थसिद्धेरुपगन्तुकाया-चिह्नानि किं प्राक्प्रकटीभवन्ति ॥१०३॥ (१) श्रेष्ठाः । (२) शतश: । ( ३ ) अन्येऽपि । (४) शुभोदर्ककथयितारः । (५) सूरे: कार्य [ सि]द्धेः । ( ६ ) आगन्तुकायाः । भविष्यन्त्या इत्यर्थः । ( ७ ) लक्षणानि ॥ १०३ ॥ 'वाचोऽनुबिम्बाभिरिवाऽङ्गनाभि- 'राशीर्भिरध्वन्यभिनन्द्यमानः । “महोदयोदर्कविधायिनो "धिया, विमृश्य सूरिः शकुनान्पुरोऽचलत् ॥१०४॥ इति शकुनाः ॥ (१) सरस्वतीदेवीप्रतिबिम्बाभिरिव । ( २ ) मङ्गलवाग्भिः । (३) स्तूयमानः । (४) अतिशयोदयो मोक्षश्च तत्फलकारकान् । (५) स्वबुद्धया । (६) विचार्य । (७) अग्रे । (८) चचाल ॥ १०४ ॥ 'द्विवेललीलाप्रविसारिवेला - पयोभुजाभ्यां परिरभ्य 'भूम्ना । मत्तेभयानामिव 'वल्लभेर्ना - ऽम्भोराशिना स्वाङ्कर्मवाप्यमानाम् ॥१०५॥ 'महीयसीं नाम 'महीस्रवन्तीं विजृम्भिहैमाब्जरजःपिशङ्गाम् । "वेणीमिव स्वर्णमयीं 'नदीश - नेमीन्दिरायाः प्रभुरुल्ललङ्के ॥१०६॥ युग्मम् ॥ 1 (१) द्विर्वारं लीलया प्रसरणशीलवेलाजलरूपबाहुभ्याम् । ( २ ) आलिङ्ग्य । ( ३ ) बाहुल्येन । ( ४ ) शामिव । (५) कान्तेन । ( ६ ) समुद्रेण । (७) निजोत्सङ्गम् । (८) नीयमानाम् ॥१०५॥ ( १ ) अतिमहतीम् । (२) महीनामनदीम् । (३) विकचकाञ्चनकमलपरागपिङ्गाम् । ( ४ स्त्रीशिरा ( रो ) भूषणम् । संयतानां केशानामुपरि परिधीयते । प्रलम्बा हैमी च सा वेणी कथ्यते । (५) भूमिलक्ष्म्याः । ( ६ ) उल्लङ्घयति स्म ॥ १०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy