SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः क्वापि स्थपटितां क्वापि, 'द्रुमद्रोणीसमाकुलाम् । ___क्वचिद्वहद्वाहिनीकां, 'किराताकलितां क्वचित् ॥१०७॥ 'द्विपद्विपिद्विपद्वेष्य-मुख्यजन्तूचितां क्वचित् । पदवीं क्षोणिभृत्क्षोणी-मिव सूरिरलङ्घयत् ॥१०८॥ युग्मम् ।। (१) विषमोन्नतीभूताम् । स्थपुटत्वं सञ्जातमस्यामिति । (२) तरुराजीव्याप्ताम् । 'द्रोण'शब्दः श्रेणिवाची । “भिल्लीपल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु" इति चम्पूकथायाम् । तथा 'द्रोणी'शब्दः दीर्घोऽप्यस्ति । (३) प्रसरन्नदीयुताम् । (४) भिल्लावलीयुक्ताम् । (५) हस्तिव्याघ्रसिंहप्रमुखसत्त्वानां वासयोग्याम् । (६) मार्गम् । (७) गिरिभूमीम् ॥१०७-१०८॥ क्रमाद्वैटदले 'फुल्ला-म्भोजे भृङ्ग इवाऽऽगमत् । स्तम्भतीर्थस्य सङ्ग्रेन, तस्मिन्प्रभुरवन्धत ॥१०९॥ (१) वडदलाख्ये ग्रामे । (२) स्मेरकमले । (३) आगतः ॥१०९॥ 'भक्तिप्रह्वमना 'जिनाधिपमताधिष्ठायिनी निर्जरी तस्मिन्नक्तमवाकिरद्वतिपतिं नीरन्ध्रमुक्ताफलैः । श्रुत्वा तीर्थकरानुकारिभगवन्माहात्म्यंमुत्कण्ठिता _ 'विद्यो वन्दितुमागताः प्रियतमा राज्ञः "स्वतारोत्करैः ॥११०॥ (१) भक्तितत्परमानसा । (२) शासनाधिष्ठायिका । (३) देवी-सिद्धायिका । (४) तत्र-ग्रामे । (५) रात्रौ । (६) वर्धापयति स्म । (७) सूरीन्द्रम् । (८) छिद्ररहितमौक्तिकैः । (९) जिनेन्द्रसदृशं सूरिमहिमानम् । (१०) उत्कण्ठायुक्ता जाताः सन्त्यः (सत्यः) । (११) वयं एवं जानीमहे ।(१२) राज्ञश्चन्द्रस्य नृपस्य वा । (१३) स्त्रियः । (१४) स्वमन्दिरीभूततारकनिकरैः सार्द्धम् ॥११०॥ तत्राऽऽनन्द्य जनान्दिनानि कतिचिद्वांचंयमाधीशिता, वाऽतिक्रमितुं क्रमात्प्रेववृते भूमेः समं साधुभिः । *वाचा चन्द्रिकया तमः प्रशमयन्नेत्रांश्चकोरान्प्र॒णन् 'ताराणां निवहैविहायस इव श्यामाङ्गनानायकः ॥१११॥ (१) आनन्दयित्वा । (२) सूरीन्द्रः । (३) मार्गम् । (४) उल्लयितुम् । (५) प्रारभत । (६) पृथिव्याः । (७) वाण्या । (८) अज्ञानमन्धकारं च । (९) आनन्दयन् । (१०) तारकनिकरैः । ( ११) आकाशस्य मार्गम् । (१२) चन्द्रः । “यामिनीकामिनीपति' रिति कविशिक्षावृत्तौ ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy