SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९० श्री' हीरसुन्दर' महाकाव्यम् क्वचित्वनवर्त्मवन्मृगपतङ्गचित्रान्वितं क्वचिन्मैदनमेदुरं कुलमिँवैणकान्तादृशाम् । क्वचित्कुरुनिकेतवत्सं सहदेवभीमार्जुनं विराटनृपगेहवत्कचन कीचकैरञ्चितम् ॥ ११२ ॥ क्वचिन्नृपसमीपवद्विविधवाहिनीमण्डितं कचित्कंलितमग्निचिद्भवनैवच्छिखिस्फूर्जितम् । "करीन्द्रकुलसङ्कलं चान] 'विन्ध्यभूमीश्रवद् व्यलङ्कृत यतिक्षितिद्विजपतिः स वर्त्म क्रमात् ॥११३॥ युग्मम् । (१) आकाशमिव । ( २ ) मृगशिरः सूर्यचित्रानक्षत्रयुतम् । (३) 'मीढहल' इति लोकप्रसिद्धैस्तरुभिर्भूतम् । पक्षे - स्मरोपचितम् । ( ४ ) स्त्रीणाम् । (५) पाण्डुराजगृहमिव । (६) सहदेव-औषधीविश: ( शेषः ), भीम - आम्लवेतसः, अर्जुनतरुभिः सहितम् । पक्षेसहदेवभीमार्जुनाः पाण्डवा: । (७) विराटराजसौधवत् । (८) सुदेष्णाभ्रातृभिः ॥१९२॥ ॥११५॥ (१) नृपसाककैर्नानाप्रकाराभिः सेनाभिर्नदीभिश्च भूषितम् । (२) युक्तम् । ( ३ ) अग्निहोत्रिगृहमिव । ( ४ ) वह्नीनां मयूराणां च स्फूर्त्तयो यत्र । ( ५ ) गजराजीविराजितम् । (६) विन्ध्याचलवत् । (७) उल्लङ्घितवान् । (८) सूरिराज: । (९) मार्गम् ॥११३॥ 'विबुधपतिपुरन्ध्रीबन्धुरारब्धलीलं, 'जिनपदकृतशोभं सञ्चरच्छ्वेतदन्ति । तटमिव वैरटाया 'वल्लभः स्वर्वहाया, अकमिपुरसमीपं भूषयामास सूरिः ॥११४॥ (१) शक्रकान्त (न्ता )भि: र(भिर्म )नोज्ञा रचिता क्रीडा यत्र । " अखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानी "ति नैषधे । ( २ ) तीर्थकृतां स्थानैः विष्णोस्त्रिभिस्तारारूपैः पदै रचिता शोभा यत्र । (३) प्रचलन्तो भद्रगजा ऐरावणश्च यत्र । ( ४ ) हंस्याः । (५) कान्त::- हंसः । (६) गङ्गायाः ॥११४॥ प्रभोरांगमनोदन्तः, प्रससार पुरान्तरे । `चान्दनीय इवऽऽमोदः, क्षितौ मलयभूभृतः ॥११५॥ (१) आगमनसमाचार: । (२) चन्दनसम्बन्धी । ( ३ ) परिमलः । (४) मलयाचलस्य 'विज्ञायाऽऽगमनं यतिक्षितिपतें रामोदमेदस्वितां प्राप्ताः 'पौरपरम्परा मधुक्रतौ व्यूहा 'इवोर्वीरुहाम् । 1. ०मग्निविद्ध० हीमु० । टीकायामपि एवमेव पाठः । स चाऽशुद्धः । 2. क्वचिद्विन्ध्य० हीमु० । स चाशुद्धः छन्दोभङ्गकारित्वात् । 3. ० ऋतोर्व्यू० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy