SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः गन्तुं सम्मुखमस्य 'नश्यदतनोः सज्जीबभूवुस्ततः श्राद्धा राजगृहोद्भवा इव मृगारातिध्वजस्याऽर्हतः ॥११६॥ (१) ज्ञात्वा । (२) आनन्दमेदुरताम् । (३) अकमिपुरश्राद्धवर्गाः । (४) वसन्तऋतौ । (५) तरुसमूहाः परिमलोपचयं प्राप्नुवन्ति । (६) पलायमानः कामो यस्य । (७) राजगृहवास्तव्याः। (८) श्रावकाः । (९) श्रीमहावीरदेवस्य ॥११६॥ पर्याण्यन्ते स्म 'वाहा हरिहरय इवोत्तीर्णवन्तः क्षमायां 'क्वाऽप्यप्राप्तावलम्बाम्बरचरणभवद्भूमनिर्वेदभाजः । शृङ्गार्यन्ते गजेन्द्रा 'गिरिगुरुवपुषः क्लृप्तसिन्दूरपूरा विद्मः प्रातस्त्यसन्ध्याः कुनयसमुदयज्योतिरस्तं नयन्त्यः ॥११७॥ (१) पर्याणयुक्ताः क्रियन्ते स्म । (२) इन्द्राश्वाः सूर्याश्वा वा । (३) भूमौ । (४) कस्मिन्नपि देशेऽनासादितावलम्बा गगने सञ्चरणादुद्भूतबहुलखेदभाजः । (५) शृङ्गारयुक्ताः सृज्यन्ते । (६) पर्वतप्रायाः । (७) रचितं सिन्दूरपूरं येषु । (८) प्रभातकालसन्ध्या इव । (९) कुमतिततितारकान् ॥११७॥ भूम्या 'व्योमेग्रंयेाऽधृषत रविरथाः पद्महस्तैः श्रिताङ्काः कैश्चित्सज्जीक्रियन्ते कनकमणिमयाः सत्तुरङ्गाः शताङ्गाः । पति पादातिकानां विविधमणिगणालङ्कतीरुद्वहन्ती राभस्यादस्पृशन्ती भुवमपि सुमनःश्रेणिवत्सज्जति स्म ॥११८॥ ___ (१) गगनेन सार्द्धमीर्घ्यया । (२) धृताः । (३) पद्मानि रेखाकाराणि कमलानि वा हस्ते येषां, तैनरैः सूर्यैः । (४) आश्रितमध्याः । (५) शोभनाश्वाः । (६) रथाः । (७) बहुप्रकाररत्नावलीनामलङ्कारान् । (८) औत्सुक्यात् । (९) देवराजीव ॥११८॥ 'प्रसाधिकाभिः परमाणुमध्या, विभूषिताङ्ग्यः पुपुषुर्विभूषाम् । 'निनंसयेवोपनता व्रतीन्दो-भुजङ्गलोकार्बुजगेन्द्रवध्वः ॥११९॥ (१) मण्डनकारिणीभिः । (२) स्त्रियः । “अध्यापयामः परमाणुमध्या" इति नैषधे । (३) नन्तुमिच्छया । (४) आगताः । (५) नागलोकात् । (६) नागेन्द्राङ्गनाः ॥११९॥ सुदृशां शिरसि व्यलीलसत्, कलशाली मणिहेमनिर्मिता । 'स्तनवैभवसितेव त-द्विजिगीषुः 'पुनर्रभ्युपेयुषी ॥१२०॥ (१) स्त्रीणाम् । (२) रेजुः । (३) कुचशोभाभिरभिभूता । (४) तेषां कुचानां 1. परम० हीमु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy