SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९२ श्री'हीरसुन्दर' महाकाव्यम् जेतुमिच्छया। (५) व्याघुट्य । (६) आगता ॥१२०॥ 'विहायोऽङ्गणालिङ्गिगेहाग्रशृङ्गा-निलालोलकेतुक्कणत्किङ्किणीभिः । पुरी प्रेक्ष्य सूरि किमायान्तमन्त-र्भवत्प्रीतिरातन्तनीतीव गीतिम् ॥१२१॥ (१) गगनाङ्गणाश्लिष्टगृहोपरिशिखरेषु पवनचञ्चलपताकानां शब्दायमानघुघुरिकाभिः । (२) राजनगरम् । (३) दृष्ट्वा । (४) चित्ते । (५) प्रकटीभवत्प्रेमा ॥१२१॥ 'तुमुलैबन्दिवृन्दानां, 'तूरस्वरकरम्बितैः । भूपरीरम्भकाम्भोद-निर्हादैरिव निर्बभे ॥१२२॥ (१) कोलाहलैः । (२) मङ्गलपाठकगणानाम् । (३) वाद्यध्वनिमित्रैः । (४) भूमीरामालिङ्गनकृन्मेघगर्जाभिरिव ॥१२२॥ केऽपि कुतूहलकलिता, वन्दितुमितरे विलोकितुं केचित् । । विकसितसुरतरुसुममिव, मधुपास्तर्मुपागमन्पौराः ॥१२३॥ (१) कौतुकयुक्ताः । (२) स्मितकल्पद्रुपुष्पमिव । (३) भृङ्गाः । (४) समेताः ॥१२३॥ प्रभोः 'पदाम्भोजयुगं पुरीजना, नमस्कृतेर्गोचरतां नयन्तः । 'प्रमोदनिर्यन्नयनाश्रुबिन्दुभिः, श्रान्तं पथा संस्नपयन्ति मन्ये ॥१२४॥ (१) चरणकमलयुगलम् । (२) प्रणमन्तः । (३) आनन्देन निस्सरल्लोचनसलिलकणैः । (४) प्राप्तश्रमम् । (५) मार्गातिक्रमणेन ॥१२४॥ 'मुमुक्षुक्षोणीन्द्रक्रमकमलभक्तिप्रणमन क्रियाश्लिष्यत्यांशुप्रसरविलसद्भालफलकाः । व्यराजन्त स्वः( श्वः )श्रेयसविहितये 'क्लृप्ततिलकाः व्यवस्यन्तः 'सिद्धिश्रियमिव वरीतुं पुरजनाः ॥१२५॥ (१) सूरिराजचरणकमलनमस्क्रियाकाले मिलद्रजःप्रसरशोभमानललाटपट्टाः । (२) कल्याणकृतये । (३) रचिततिलकाः । (४) उद्यमं कुर्वन्तः । (५) मुक्तिलक्ष्मीम् । (६) परिणेतुम् ॥१२५॥ 'प्राघुणः श्रवणयोः श्रमणेन्दो-रागमोऽकमिपुराधिभुवोऽथ ।। वह्निबीजविदलद्दलमाला-शालिवारिजवतंसवदासीत् ॥१२६॥ (१) अतिथिः । (२) कर्णयोः । (३) सूरीन्द्रस्य । (४) साहिबखानेन (खानस्य )। (५) स्वर्णस्य विकसत्पत्रपतिशोभनशीलकमलोत्तंस इव ॥१२६॥ 1. पुरोऽधि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy