SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८३ एकादशः सर्गः (१) मेघाः । (२) वर्षाकालसम्बन्धिनः । (३) जलभरैरुन्नमन्तः । (४) विष्णोः पदंनभः । (५) अभजन्त । (६) मौनम् । (७) श्रावकश्रेष्ठाः ॥७४॥ तदीयां गिरं कर्णिकावत्सुवर्णा-ङ्कितां सूक्तिमुक्तावलीशालमानाम् । 'विमुक्ताङ्गभोगोऽपि भोगीव योगी-श्वरः कर्णपूरीकरोतीति चित्रम् ॥५॥ (१) श्राद्धसम्बन्धिनीम् । (२) कर्णभूषणमिव । (३) शोभनाक्षरैः हेमभिश्च युक्ताम् । (४) सुष्ठ वचनचातुर्येव मौक्तिकपतिस्तया शोभमानाम् । (५) त्यक्ताः शरीरस्य स्नानोद्वर्त्तनविलेपनभूषणादयो येन । (६) भोगभागिव । (७) योगभाजां राजा । (८) को पूर्यते अनयेति कर्णपूरा । अकर्णपूरा कर्णपूरा कृतवानिति । (९) आश्चर्यम् ॥७५॥ 'महीमण्डलान्तः किमाविर्भवन्तं, पुनः शासनस्योदयं श्रीजिनेन्दोः । अशेषावनीशासितुः शासनं त-निशम्य त्यसौ चिन्तयामास चित्ते ॥७६॥ (१) भूपीठमध्ये । (२) प्रकटीभवन्तम् । (३) समस्तक्षितिपालयितुरकब्बरस्य । (४) आज्ञाम् । (५) श्रुत्वा (६) अग्रे वक्ष्यमाणम् ॥७६॥ अयं हन्ति दावाग्निवद्वन्यजन्तून्, 'प्रचण्डाशयो दण्डभृद्वद्यदास्ते । क्षितौ स्वं निधानं 'धनीवाऽवनीन्दो-स्तदेतस्य चित्ते कृपां निक्षिपामि ॥७७॥ (१) दावानल इव । (२) काननजातसत्त्वान् । (३) रौद्रपरिणामः । (४) यम इव । (५) धनवानिव । (६) अकब्बरसाहेः । (७) स्थापयामि ॥७७॥ दधानेन 'धा धुरं किं क्षितीन्द्रः, कृतः सम्मुखीनः स केोऽपि धर्मे । फैलाभ्युद्गमे विश्वलोकम्पूणेन, प्रसूनव्रजेनेव विस्मेरशाखी ॥७८॥ (१) धर्मसम्बन्धिनीम् । (२) सन्मुखः । (३) धर्मिणा । ( ४ ) फलानां प्रादुर्भवने ।(५) समस्तजनानन्ददायिना । (६) कुसुमप्रकरण । (७) विनिद्रतरुः । प्रायः कुसुमेभ्यः फलानि भवेयुरिति प्रसिद्धिः । यतः-2'अहो अकुसुमजं फल मिति वचनात् ॥७८॥ किमाविर्बभूवे स्वभावेन धर्मे, धिया शाम्भवे 'काश्यपीशासितुर्वा । यद॑न्तर्मदीयागमं लिप्सतेऽसौ, विलासीव पुंस्कोकिलः पुष्पकालम् ॥७९॥ (१) सहजेन । (२) जैने । (३) अकब्बरस्य । (४) चित्ते । (५) ममाऽऽगमनम् । (६) वाञ्छति । (७) क्रीडालोलः । (८) पुमान् पिकः । (९) वसन्तम् ॥७९॥ 1. चकारेति हीमु० । 2. अहो अमेघजा वृष्टि-रहो अकुसुमजं फलम् । अहो पुराकृतं पुण्यं, यदृष्टो नाथलोचनैः ॥ इति जिनस्तुतौ । हीम०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy