________________
श्री' हीरसुन्दर' महाकाव्यम्
(१) आत्मनो विरुद्धविधातुः । (२) योग्यता । ( ३ ) अतिमहताम् । ( ४ ) निजशाखाग्राणि । (५) छिन्दन्तम् । ( ६ ) चन्दनतरु: । (७) सुरभयति ॥ ६८ ॥
८२
'महात्माऽथ वा येन 'नीयेत 'तापं, प्रयत्येत तस्यैव तेनोपॅकर्त्तुम् । "दहेद्यो निजं चूर्णयित्वा 'कृशानौ, तमेव स्वयं धूपयेत्ककतुण्डः ॥६९॥
( १ ) सत्तम: । ( २ ) प्राप्येत । ( ३ ) सन्तापम् । ( ४ ) प्रयत्नः क्रियेत । (५) उपकारं कर्त्तुम् । (६) ज्वालयेत् । (७) खण्डशः कृत्वा । ( ८ ) अग्नौ । ( ९ ) सुगन्धयति । (१०) कालागुरुः ॥६९॥
सतां स्वोर्पकर्त्तापकर्त्ता च चित्ते ऽथवैकां 'तुलां प्राप्नुतो निर्विशेषम् । 'विषेन्दू इवऽनङ्गदस्योः सुधोर्वा-विवाऽब्धेः पुनश्चन्द्रिकाङ्क्षविवेन्दोः ॥७०॥
( १ ) उपकारी अपकारी च । ( २ ) सदशीभावम् । (३) लभेते । ( ४ ) निर्गतो विशेषो यत्र । ( ५ ) कण्ठदाहकृत्कालकूटं शोभाकृच्चन्द्रश्च । ( ६ ) हरस्य । ( ७ ) जगज्जीवातुः - अमृतं, स्वक्षयकृद्वडवानलः । ( ८ ) समुद्रस्य । ( ९ ) जगदुद्योतं कारिका ज्योत्स्ना, कलङ्ककृल्लक्ष्म । (१०) चन्द्रस्य सदृशीं कोटिं भजतः ॥ ७० ॥
।
'समुत्कण्ठुलं मानसं 'मेदिनीन्द्रः, प्रभौ यद्विभत्ष सैये जलस्येव दुग्धेन सङ्गं 'सिसृक्षो - स्त्वया किं पुनर्वाच्यमस्य कृत्यै ॥७१॥
( १ ) उत्कण्ठितम् । ( २ ) अकब्बरः । ( ३ ) श्रीमद्विषये । ( ४ ) शिशिरऋतौ । ' शिशिरे करिणां मद' इति वाग्भटकाव्यानुशासने । (५) स्त्रष्टुमिच्छो: । (६) साहे: ( ७ ) उपकाराय ॥७१॥ 'प्रणिघ्नन्वने 'व्याधवन्नैकसत्त्वा-नसत्वीकृताशेषविद्वेषिपक्षः ।
ततो हेमचन्द्रेण चौलुक्यभूमा-निवाऽसौ त्वयाऽकब्बरो बोधनीयः ॥७२॥
( १ ) व्यापादयन् । ( २ ) लुब्धक इव । (३) दुर्बलाः कृताः समस्ता रिपूणां वंशा येन । (४) कुमारपालनृप इव ॥७२॥
'हिमोर्वीधरोर्वीव सिन्धोः सुराणां कृपाया उपादानमुक्तिस्त्वदीया । "महत्वं विभो ! लप्स्यते चित्तवृत्तौ, 'पयो मौक्तिकत्वं 'घनस्येव शुक्तौ ॥७३॥
(१) हिमाद्रिमहीव । (२) गङ्गायाः । (३) मूलकारणम् । (४) धर्मदेशना । ( ५ ) प्रतिष्ठाम् । ( ६ ) जलम् । (७) मुक्ताफलत्वम् । ( ८ ) मेघस्य । ( ९ ) शुक्तिकायाम् ॥७३॥ 'पयोदा इव प्रावृषेण्या 'नमन्तः, प्रभोश्चक्रपाणेः पदं संस्पृशन्तः । निगद्येति वाचंयमेन्दोः पुरस्ता - त्र्यंषेवन्त 'जोषं मुखे श्राद्धमुख्याः ॥७४॥ 1. तेनैव तस्योप० हीमु० । 2. ०वर्गः हीमु० ।
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org