________________
श्री हीरसुन्दर' महाकाव्यम् (१) वयसीभूता दिगङ्गना येषाम् । (२) अवरोधरक्षकपुरुषी( ष)कृता उदारताधीरताप्रमुखदीप्यमानगुणगणा येषाम् । (३) चत्वारः समुद्रा एव परिखा यत्र । ( ४ ) वसुधारूपान्तःपुरे ॥५५॥
(१) हतगोत्रान् । (२) रिपुनृपसहस्रान् । सहस्रशब्दः पुंक्लीबलिङ्गे । (३) स्वकीयां दिशम्-पूर्वदिशम् । (४) शक्रः । (५) आगतः ॥५६॥
'जगन्मानसानामिवाऽऽकृष्टिरज्जून्, सुधाधामवद्विभ्रतः शुभ्रिमाणम् ।
कदाचित्समाकर्ण्य युष्मद्गुणौघान्, प्रभून्प्रेक्षितुं काङ्क्षता तेन साक्षात् ॥५७॥ 'तनूमन्निदेशं नृपस्येव लेखं, करे बिभ्रतः प्रेषितादूतयुग्मात् । प्रभोः सूक्ष्मदर्शीव शास्त्रस्य हाईं, विदित्वा मुदा साहिबः खानमुख्यः ॥५८॥ इवाऽनूरुदचिःपतीन्पूर्वशैलं, तदीयान्तिकं पूज्यपादांन्निनीषुः ।। सहायानिवाँऽऽहूय नः श्रीमुनीन्दो !, सुखं प्रेषयामास वः सन्निधानम् ॥५९॥
त्रिभि[विशेषकम्॥ (१) भुवनजनानां मानसाकर्षणरश्मीन् । (२) चन्द्र इव । (३) श्वेतताम् । (४) कस्मिन्नपि प्रस्तावे । (५) श्रुत्वा । (६) इच्छता ॥५७॥
(१) मूर्तिमतीमाज्ञामिव । (२) कुशाग्रबुद्धिः । (३) रहस्यम् । (४) ज्ञात्वा ॥५८॥
(१) अरुणसारथिः । ( २ ) सूर्यान् । (३) उदयाचलम् । (४) अकब्बरसमीपम् । (५) प्रापयितुमिच्छुः । (६) सखायइ ( ? )सहचरान् । (७) आकार्य ।(८) अस्मान् । (९) युष्माकम् । (१०) पार्वे ॥५९॥ त्रिभिर्विशेषकम् ॥
सुवर्णोऽप्यवर्णः सुरावासवासी, न लेखोऽपि मूकोऽप्युदन्तं 'ब्रुवाणः । प्रभो ! गृह्यतां नागरैरित्युदित्वा, स लेखः पुरोऽमोचि “वाचंयमेन्दोः ॥१०॥
(१) शोभनो वर्णो-ब्राह्मणादिर्यस्य । पक्षे-शोभनान्यक्षराणि यत्र । (२) न विद्यते पूर्वोक्तवर्णो यस्य । (३) स्वर्गस्थो न । (४) अवागपि । (५) समाचारम् । वाचिकम् । (६) कथयन् । (७) अकमिपुरश्राद्धैः । (८) सूरेः ॥६०॥
'प्रदेशीव केशिवतिक्षोणिशक्रै-रसौ बोधनीयो नृपः पूज्यपादैः । महान्तो हि विश्वोपकृत्यै यतन्ते, घनाः किं न सर्वं जगज्जीवयन्ति ॥६१॥
(१) प्रदेशीनृपः । (२) केशिगणधरः( रैः) । (३) प्रतिबोधयितव्यः । (४) भगवच्चरणैः । (५) भुवनोपकाराय । (६) उद्यम कुर्वन्ति । (७) मेघाः । ॥६१॥ 1. रश्मीन् हीमु०। 2. ०धाने हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org