________________
७८
श्री हीरसुन्दर' महाकाव्यम् पश्चाद्वालिताः । (१०) हृष्टाः ॥४४॥
'विचिन्त्याऽऽत्मचित्ते तदादेशमर्ह-न्मतस्योदयस्वर्द्वमस्येव बीजम् । तपापक्षमुख्याखिलश्राद्धलोका, मिलित्वा 'मिथः प्रोचुराँनन्दसान्द्राः ॥४५॥
(१) विमृश्य । (२) खानस्याऽऽज्ञाम् । (३) जिनशासनस्य । (४) उदयरूपकल्पतरोः । (५)'तपा' इति नाम गच्छस्य पक्षः-स्वीकारो येषां तेषु श्रेष्ठाः समस्ताः श्रावकजनाः । “अपक्षपातेन परीक्ष्यमाणः पक्ष" इत्यनेकार्थवृत्तौ । (६) परस्परम् । (७) कथयन्ति स्म । (८) हर्षव्याप्ताः ॥४५॥
'इत: शासनं 'शासितुनः प्रजाना-मितो वन्दनीया "विभोर्वन्द्यपादाः । इदं सौरभारोपणं जातरूपे, 'त्रिरेखे पयःपूर्तिरप्याविरासीत् ॥४६॥
(१) अस्मिन्पावें । (२) आज्ञा । (३) राज्ञः । (४) अस्माकम् । (५) हीरसूरेः । (६) जगद्वन्दनार्हाश्चरणाः । (७) सुगन्धतायाः स्थापनम् । (८) स्वर्णे । (९) शङ्ख । (१०) दुग्धपूरणम् ॥४६॥ 'हृदन्तर्मुनीन्दोनिनसा 'पुरासीत्, 'नियुक्ता पुनः स्वामिनेदं तदासीत् । प्रतिस्थानमालोकमानान्मनुष्या-संमेत्य स्वयं पद्मवासा वृणीते ॥४७॥
(१) मनोमध्ये । (२) नन्तुमिच्छा । (३) पूर्वम् । ( ४ ) आदिष्टा । (५) साहिबखानेन । (६) स्थानं स्थानं प्रति । (७) पश्यतः । (८) जनान् । (९) आगत्य । (१०) स्वेनैवअनाकारितत्त्वात् । (११) लक्ष्मीः (१२) वरयति ॥४७॥
अलं मन्दवंद्वो विलम्बैः सगर्भा-स्त्वरध्वं वज्रामः प्रभोः सन्निधाने । 'विमृश्येति सर्वेऽभिनिर्याणयोग्यं, मुहूर्त मिथो "निर्णयन्ति स्म पौराः ॥४८॥
(१) पूर्यताम् । (२) मूर्खवत् । (३) युष्माकम् । (४) प्रतीक्षणैः । (५) भ्रातरः ।। (६) शीघ्रीभवत । (७) समीपे । (८) विचार्य । (९) प्रयाणोचितम् । (१०) निर्धारयन्ति स्म
॥४८॥
अथाऽऽरुह्य वाह्यानि ते श्राद्धलोकाः, पुरे भूमिशृङ्गारगन्धारसंज्ञे । प्रभुं वन्दितुं प्रीतिमन्तः प्रचेलु-जिनं स्वर्गिवर्गा इव क्षोणिपीठे ॥४९॥ (१) वाहनानि । (२) पृथिव्या भूषणे गन्धारनाम्नि । ( ३) देवव्रजाः ॥४९॥ 'शिवश्रीविवाहोत्सुकीभूतचित्तै-र्यथा यात्रिकैः सिद्धधात्रीधरस्य । प्रयाणैरभूयःप्रमाणैरेमीभिः, समीपे शमीन्दोः समागम्यते स्म ॥५०॥
1. रास्ते हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org