SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ श्री हीरसुन्दर' महाकाव्यम् निपीयेति तद्वाग्विलासामृतं स, हृदं दन्तिवत्प्रीतिमन्तर्जगाहे । "अवेत्य प्रसत्तिं पुनः पातिसाहे-रवैति स्म सम्प्राप्तसर्वस्ववत्स्वम् ॥३३॥ (१) दूतवचनचातुरीसुधाम् । ( २ ) द्रहम् । (३) हस्तीव । ( ४ ) ज्ञात्वा । (५) प्रसादम् । (६) जानाति स्म । (७) अधिगताशेषद्रव्यमिव ॥३३॥ अथाऽऽकारिता: 'श्रावकास्तेन 'भृत्यै-श्चकोरा इव 'श्वेतभासा मयूखैः । क्रमात्तेऽपि तेषां गताः सन्निकर्षं, "निदेशं प्रभोनिर्दिशन्ति स्म सर्वम् ॥३४॥ (१) दूतवचनानन्तरम् । (२) अकमिपुर श्राद्धाः । (३) साहिबखानेन । (४) स्वसेवकैः। (५) चन्द्रेण । (६) किरणैः । (७) खानसेवका अपि । (८) श्राद्धानाम् । (९) समीपम् । (१०) आज्ञाम् । (११) कथयन्ति स्म ॥३४॥ समानीयमाना 'अमीभिर्जनास्ते-ऽप्यराजन्त मध्येपुरं दानशौण्डाः । महामात्रवृन्दै पेिन्द्रा इवॉर्वी-पतेर्मन्दिरं दानधारां किरन्तः ॥३५॥ (१) नृपभृत्यैः । (२) बहुप्रदानशीलाः । (३) हस्तिपकप्रकरैः । (४) गजेन्द्राः । (५) राजः(ज्ञः) । (६) गृहम् । (७) मदवारिप्रवाहम् । (८) मुञ्चन्तः ॥३५॥ जना जैनपक्षकदक्षा क्षितिक्षि-त्समाज विशन्ति स्म 'सम्भूय सर्वे । ततः सोऽप्यनोपदापूर्णपाणीन्, स्वबन्धूनिवाऽस्थापयत्तानुपान्ते ॥३६॥ (१) जिनशासनेऽतिनिपुणाः । (२) राजसभाम् । (३) एकतो मिलित्वा । (४) प्रशस्यप्राभृतहस्तान् । (५) समीपे ॥३६॥ अमी मूलकर्मेव तच्चित्तवृत्तेः, पुरः प्राभृतं भूमिभर्तुर्विमुच्य । अलीकातिथीभूतहस्तारविन्दाः, प्रमोदप्रगल्भाः स्म भाषन्त इत्थम् ॥३७॥ (१) कार्मणमिव । (२) खानमनोवृत्तेः । (३) साहिबखानस्याऽग्रे । (४) भालप्राघुणकीभूतपाणिपङ्कजाः - कृताञ्जलयः । (५) हर्षेणोत्साहभाजः ॥३७॥ नृणां शासिता त्वं वयं शासनीया, वयं सेवकास्त्वं पुनः सेवनीयः । नियोज्या वयं त्वं नियोक्ताऽसि यस्मा-त्तादिश्यतां कृत्यमस्माकमीश ! ॥३८॥ (१) पालयिता । (२) पालनार्हा वयम् । (३) सेवितुं योग्यः । (४) प्रयोक्ता । (५) कथ्यताम् । (६) श्राद्धानाम् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy