________________
७५
एकादशः सर्गः प्रेभुर्भद्रवान्कच्चिदास्ते हमांऊ-सुतोऽकब्बरो बब्बरोर्वीशवंश्यः । जिताश्चण्डदोर्दण्डवीर्येण येन, न्यवात्सुर्दैिगन्तेषु शङ्के दिगीशाः ॥२७॥
(१) अकब्बरः । (२) श्रेयस्वी । (३) इष्टप्रश्ने । (४) प्रबलभुजदण्डपराक्रमेण । (५) निवसन्ति स्म । (६) हरितां प्रान्तेषु ॥२७॥
चतुद्धिसंवर्तकीभूततेज-स्ततेः सन्ति जैातृकास्तस्य पुत्राः । 'महीचारिणः पूषविद्वेषिगोत्र-द्विषद्यक्षराजाङ्गजाता इवैते ॥२८॥
(१) चतुर्यु-पूर्वापरदक्षिणोत्तरसमुद्रेषु । 'सरित्कान्त' इति पाठे तु-समुद्रे वडवानलीभूता प्रतापपटली यस्य । (२) दीर्घायुषः । (३) भुवि संचरणशीलाः । (४) हर-शक्र-धनदानां पुत्राः स्वामिकार्तिक-जयन्त-नलकूबरनामानो नन्दना इव ॥२८॥
अयि ! स्वस्तिमन्त्यो 'नृपाम्भोजनेत्राः, शंचीकान्तकान्ता इव "क्ष्मामुपेताः । परीवार आस्ते शिवः सोऽपि येना-विनीन्दोर्मनों ज्ञानिनेवाऽन्वगामि ॥२९॥
(१) अयि-इत्यामन्त्रणेऽव्ययम् । (२) कल्याणिन्यः । (३) नृपाङ्गनाः । (४) शक्रपत्न्य इव । (५) पृथिवीम् । (६) प्राप्ताः । (७) निरुपद्रवः । (८) साहेः । (९) इङ्गिताकारज्ञातृत्वेन मनसोऽभिलषितं विधीयते, ज्ञानवतेव ॥२९॥
'अनीकं शुभं भूभुजो येन जज्ञे, 'युगान्तान्धकद्वेषिणेवाऽरिचक्रे । प्रजा आसते प्रीतिभाजः प्रजाव-न्मुदा प्रश्नयामास तावित्यधीशः ॥३०॥
(१) कटकम् । (२) कल्पान्तकालशिवेन । संहारकत्रा इत्यर्थः । "क्षये जगज्जीवपिबं शिवं वदन्" इति नैषधे । (३) सन्ता[न]वत् । (४) पृच्छति स्म । (५) दूतौ प्रति । (६) साहिबखानः ॥३०॥ स्थितोऽद्रिः सुराणामिवाऽऽक्रम्य सर्वा, दिशः साहिरास्ते प्रभो ! पर्वतायुः । सुताः शक्तिभेदा इव स्फूर्तिमन्तः, सुखिन्यः सुमुख्योऽपि किं राजलक्ष्यः ॥३१॥ कुले धैर्यभाजामिवाऽधीश ! साहेः, परीवारतन्त्रे 'अनातङ्किनी स्तः । महानन्दयुक्ताश्च मुक्तात्मवत्त-त्प्रजा इत्यमुं तवयं प्रत्यवोचत् ॥३२॥ युग्मम् ।।
(१) मेरुरिव । (२) स्वीकृत्य । (३) दीर्घायुः । (४) प्रभुत्वोत्साहमन्त्रशक्तीनां भेदा इव । (५) ऊर्जस्वलाः । (६) महिष्यः । (७) राज्यश्रिय इव ॥३१॥
(१) धीराणां वंशाविव । (२) परिच्छदसैन्ये । (३) नीरोगे । (४) अतिप्रमोदकलिताः मुक्तियुताश्च । (५) सिद्धा इव । (६) दूतयुग्मम् ॥३२॥ 1. ०वात्रिका० हीमु० । 2. अये हीमु० । 3. नेत्रा उपेता इव मां हरेरिन्दुवक्त्राः ॥ हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org