________________
७४
श्री हीरसुन्दर' महाकाव्यम् (१) विद्वद्भिः । (२) जातम् । (३) उत्ताला त्वरिता फाला गगनगामी गतिविशेषो यस्य । (४) अतिवेगवत्सन्देशहारकद्विकम् । (५) वेगस्फूर्जितम् । (६) चपलाशयानाम् । (७) दूतयुग्मात् । (८) दूतयुगेन (९) मनोभ्यः । (१०) पठिता ॥२१॥
'क्रमाभ्यामतिक्रम्य सन्देशहारि-द्विकं ग्रामकूलाचलारामसीमाः । मुदाऽहम्मदावादोगात्क्रमात-त्सहाध्यायि किरहसां मारुतानाम् ॥२२॥
(१) पादाभ्याम् । (२) उल्लङ्घ्य । (३) दूतद्वयम् । (४) ग्रामा लघुपुराणि । उपलक्षणानगरपत्तनादिग्रहः । नद्यः वनान्यरण्यादीनामपि ग्रहः । ग्रामनगराक्षि( द्रि )क्षेत्रभुवः । (५) आगतम् । (६) दूतद्वयम् । (७) सार्धमेकगुरुसन्निधाने अधीते इत्येवंशीलं सहाध्यायि । (८) वेगानाम् । (९) वायूनाम् ॥२२॥
रणे वैरिणां पार्थिवा येम देहा, हताः पेतुरुर्वीमिवाऽम्बां मिलन्ति । ययौ 'तत्पुराधीशितुः सन्निधाने, द्वयं दूतयोर्मुद्गलक्षोणिभर्तुः ॥२३॥
(१) पृथिवीसम्बन्धिनो बहुपृथिवीविभागाः । “पार्थिवं हि निजमाजिषु वीरा गौरवाद्वपुरपास्य भजन्ते" इति नैषधे । (२) माताम्( तरम् ) । तदुत्पन्नत्वात् । (३) अहम्मदावादस्वामिनः । (४) अकब्बरसाहेः ॥२३॥
'सुवर्णश्रियोऽद्वैतयोऽलङ्कृतायाः, सुधास्यन्दिवाग्वैदुषीभूषितायाः । कुमार्या इव क्ष्मापतेः पत्रिकाया, असौ तेन पाणिग्रहः कार्यते स्म ॥२४॥
(१) शोभनानामक्षराणां शोभया, हेम्नां लक्ष्म्या, स्वर्णतुल्यया वा शोभया । (२) असाधारण्या । (३) भूषितायाः । (४) अमृतश्राविवचनचातुर्या शोभितायाः । (५) साहिबखानः । (६) पाणौ ग्रहणं विवाहश्च ॥२४॥ ततः कोशवझूमहेन्द्रस्य मुद्रां, प्रमोदाईंपादाय लेखं दधानम् । 'विमुद्याक्षराण्यक्षिलक्षाव( ? )णि कुर्वन्, विवेदाँऽऽशयं तस्य निःशेषमेषः ॥२५॥
(१) भाण्डागारम् । (२) राज्ञः । (३) गृहीत्वा । (४) उन्मू( मु)द्रयित्वा । (५) दन्दर्श ( दर्शयन्) । (६) बुबुधे-ज्ञातवान् । (७) अभिप्रायम् । (८) लेखस्य । (९) समस्तम् । (१०) खानः ॥२५॥
'पुरस्तातंयोः प्रीतिमान्मुद्गलेशो, गिरं वासयामास वक्त्रारविन्दे । 'विनिर्यद्विजश्रेणिशोचिर्विमिश्र-स्मितेनेव तन्वन्मरालैकलीलाम् ॥२६॥
(१) अग्रे । (२) दूतयोः (३) साहिबखानः । (४) वासयति स्म । (५) मुखकमले । (६) निःसरद्दन्तकान्तिकरम्बितहसितेन । (७) हंसानामद्वितीयां क्रीडाम् ॥२६॥ 1. ०कुल्याचला० हीमु० । 2. ०बाद० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org