________________
ऐ नमः ॥ अथ एकादशः सर्गः ॥
अर्थाऽऽहार्तुमीहांबभूवोऽब्धिनेमी तमीशो मुनीनां सुनासीरमेनम् । "प्रबोधाय धर्मात्मनः किं निजस्य - ऽवतीर्णं पुनर्हेमचन्द्रं व्रतीन्द्रम् ॥१॥ (१) आकारयितुम् । (२) काङ्क्षति स्म । ( ३ ) अकब्बरः । ( ४ ) सूरिशक्रम् । (५) प्रतिबोधार्थम् । (६) कृतावतारम् । (७) हेमाचार्यम् ॥ १ ॥
अथाह्वा० - अथ धरेश एनं मुनीन्द्रमाह्वायति स्म । उत्प्रेक्ष्यते - धर्मात्मनः पुण्यवतः कुमारपालस्य वा प्रतिबोधाय गृहीतावतारं हेमाचार्यम् ॥१॥
ततोऽजूहवहूतयुग्मं वियुग्मी - कृतारातिपक्षः क्षमाकर्मसाक्षी । उपयोराशिपर्यन्तराष्ट्रप्रतिष्ठा, मनीषीव यद्वेदे नि:शेषभाषाः ॥ २ ॥
(१) आकारयामास । ( २ ) वियोगं प्रापिता वैरिणां पक्षा येन । ( ३ ) समुद्रसीमां यावद्देशेषु प्रतिष्ठाः प्रसिद्धयो यासाम् । ( ४ ) विद्वानिव । (५) जानाति । ( ६ ) समस्ता भाषाः ॥ २ ॥ तदनन्तरं वियोगं पत्नीभिः प्रापितो वैरिपक्षो येन तादृशः क्षमासूर्यः दूतयुग्ममाह्वयति स्म । समुद्र एव प्रान्तो येषां तादृशा ये राष्ट्रा देशास्तेषु प्रतिष्ठा माहात्म्यं यासां तादृशी (श्यः) भाषा: यद्दूतयुग्मं जानाति । यथा विद्वान् निःशेषाः षडपि संस्कृत १ - प्राकृत २ - मागधी ३ - सौरसेनी ४ - पैशाची ५- अपभ्रंशी ६लक्षणा भाषा वेत्ति । तद्वद्द्रुतयुग्मं वेद ||२||
'विपक्षान्क्षितौ क्ष्माभृतो हन्तुमेतो, धुँलोकादिवाऽखण्डलः स्वर्गिवर्गैः । द्विषत्कालरात्रीयितानेकवीरं, द्विषां पर्षदीति स्तवीति ं प्रभुं यत् ॥३॥
(१) वैरिण: । (२) रिपून् शैलांश्च । (३) आगत: । ( ४ ) स्वर्गात् । ( ५ ) इन्द्रः । ( ६ ) देववृन्दैः । ( ७ ) वैरिणां प्रलयनिशा इवाऽऽचरिताः संख्यातिगाः सुभटा यस्य । (८) रिपुसभायाम् । ( ९ ) स्वामिनम् ॥३॥
विपक्षा० । यद्दूतयुग्मं रिपुकालसमानानेकप्रतिभटाधिपं यं रिपुपर्षदि स्तौति ||३|| "हतारातिसारङ्गदृक्कज्जलाङ्क-स्रवद्वाष्पभानूद्वहावारिपूरे ।
अभिष्टौति 'लीलामरालायमानं, यशो यत्प्रभोर्वैरभाजां समाजे ॥४॥ ( १ ) व्यापादितरिपुस्त्रैणाञ्जनयुक्तगलन्नयनाम्बुयमुनाजलदनवे ? ( वहने ? ) । (२) क्रीडाहंस इवाऽऽचरत् । ( ३ ) द्विषाम् । (४) सभायाम् ॥४॥
हतारिस्त्रीस्रवदश्रुयमुनापूरे हंसायमानं यस्य यशः यद्दूतद्वयं रिपुपर्षदि स्तौति ॥४॥ 'वचोवैदुषीमेंतदीयाधृष्यां, निरूप्य प्रतीपैः क्षितीशैः प्रणे । दुर्वीविभोरागमात्प्राग्गंभस्ते रिवार्डनूरुरोचिस्तै मित्रप्रसारैः ॥५॥ आदिचतुर्भिः कुलकम् । 1. ०न्द्रव्रती० हील० । 2. चतुर्भिः कुलकम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org