________________
श्री हीरसुन्दर' महाकाव्यम् सूरिभूषितः ॥१२६।।
पण्डा 'चित्रस( शि )खण्डिनां तनुजवच्चेत्स्यांदसाधारणी यस्याऽऽस्ये भुजगप्रभोरिव भवेज्जिह्वासहस्त्रं पुनः । यस्याऽप्यस्खलिता सुरेश्वरसरिद्वीचीव वाक्चातुरी संस्तोतुं प्रभवेन्न सोऽपि सुगुरोर्यावद्गणान्भूमणे ! ॥१२०॥
(१) तत्त्वानुगा मतिः । (२) सप्तर्षयश्चित्रशिखण्डिनस्तेषां पुत्रो बृहस्पतिः । "विचित्रवाक्वित्रशिखण्डिनन्दन" इति नैषधे । (३) कस्याऽपि न सदृक्षा । “साधारणी गिरमुषर्बुधनैषधाभ्या" मिति नैषधे । (४) कुत्राऽपि वर्णने ।(५) अकुण्ठा । (६) गङ्गातरङ्गावली। (७) समर्थीभवेत् । (८) समग्रगुणान् । (९) भूमीरत्न ! ॥१२०॥
___यथा वाचपतिवत्पण्डा-तत्त्वानुगा मतिर्भवेत् । पुनर्मुखे शेषाहिवज्जी(ज्जि)ह्वासहस्रद्वयी स्यात् । पुनर्यस्य वाक्चातुरी स्वर्वाहिनी प्रवाहमालेव न क्वापि स्खलति । हे भूमणे ! सोऽपि सूरिगणान्गणयितुं न प्रभवेत् ॥१२७॥
'दृशोर्गोचरो न श्रुतेः प्राघुणश्च, 'प्रणीतः परः कश्चिदस्माभिरौंदृक् । विधात्रा विधायैनमारोपि 'मन्ये, ध्वजोर्वीश सत्सर्गसौधाग्रशृङ्गे ॥१२१ ॥
(१) न दृष्टिविषयः । (२) कर्णस्याऽतिथिः । (३) कृतः । (४) सूरिसदृशः । (५) कृत्वा । (६) सूरीन्द्रम् । (७) आरोपितः । (८) महतां सृष्टिरेव गृहं तस्योपरि शिखरे ॥१२१॥
हे अधीश ! अस्माभिरीदृक् न दृष्टो न श्रुतश्च । वयमेवं विद्यः धात्रा एनं निष्पाद्य सतामुत्तमानां सर्गः सृष्टिस्तदेव गृहं तस्य शृङ्गे ध्वजो रोपितः ॥१२८॥
'अवनिरजनिजानिः 'प्रेमरोमाञ्चिताङ्गो, 'निगदितमिति तेषां कर्णपेयं प्रेणीय । रणरणकितचेता जायते स्म व्रतीन्दोः, क्रतुभुज इव सिद्धेर्दा यिनो दर्शनाय ॥१२२॥
(१) भूमिचन्द्रः । (२) स्नेहेन पुलकिततनुः । (३) कथितम् । (४) कर्णयोः पातुं योग्यम् । (५) कृत्वा । (६) उत्सुकितमनाः । (७) देवस्य । (८) मनईप्सितस्य । (९) दानशीलस्य ॥१२२॥
महीचन्द्रस्तद्वाक्यमाकर्ण्य सूरेदर्शनार्थमौत्सुक्यवान् जायते स्म । यथा सिद्धिदायिनो देवस्य दर्शनार्थं कश्चिदुत्कण्ठितो भवति ॥१२९॥
'अवनिवलयवासवो वशीन्दो-र्जगदतिशायिगुणैकतानचेताः ।
वसुपुरुषमिवाऽऽत्मदिष्टदिष्टं, स्वसविधर्मेनमुपानिनीषुरासीत् ॥१२३॥
इति पं.देवविमलगणिविरचिते श्रीहीरसौभाग्य(सुन्दर)नाम्नि महाकाव्ये दिल्लीमण्डलवर्ण[न]1. विद्मो हीमु० । 2. जोऽधीश हीमु० । 3. इति हीरविजयसूरिगुणवर्णनम् ॥ हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org