SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ६७ शेषनागाधिपा सुधायामनादरपरा भविष्यन्ति । तेन कारणेन हे तात ! मय्यनुग्रहं कुरु इति सुधया प्रार्थितः पद्मभूर्वेधा नागान् अश्रवणगोचरीकारयितुमकर्णानकरोत् ।।१२३॥ सुरशिखरिणस्तुङ्गे शृङ्गे ध्वनिग्रहपारणां, त्रिदशसुदृशां गायन्तीनां गुणाश्रमणेशितुः । रसिकमनसौ श्यामारामावराम्बरकेतनौ, किमयत इतो गीतिं श्रोतुं तमीदिवसात्यये ॥११७॥ (१) मेरोः । (२) उच्चैः । (३) शिखरे । (४) कर्णतृप्तिः । (५) देवाङ्गनानाम् । (६) हीरसूरेः। (७) गाने रसयुक्तं मनो ययोः । (८) रात्रिस्त्रीप्रियश्चन्द्रः, अम्बरकेतनः-सूर्यः । "यामिनीकामिनीपति" रिति काव्यकल्पलतायाम् । (९) गच्छतः । (१०) एतस्मात्स्थानात् । (११) प्रातः सायं च ॥११७॥ मेरुशृङ्गे सूरिगुणान्गायन्तीनां देववधूनां गीतिं ध्वनिग्रहाणां जनानां श्रोत्राणां वा पारणातुल्यां श्रोतुं रसिकौ चन्द्रसूर्यो किमितः स्थानात्सन्ध्यासमये गच्छत इव प्रभाते सन्ध्यायां चेति । यथोपोषितानां पारणा स्यात् ॥१२४॥ 'धन्यास्ते नपते ! फलेग्रहि पनस्तेषामभज्जीवितं तैः प्रापे 'स्वजनःफलं प्रथमतो गण्याश्च पुण्यात्मनाम् । यैर्लावण्यसुधा न्यपीयततमामांकण्ठमुत्कण्ठितैः सूरेः स्मेरमुखाम्बुजन्मनि शरच्चन्द्रे चकोरिव ॥११८॥ (१) पुण्यवन्तः । (२) सफलम् । (३) स्वावतारफलम् । (४) आदितः । (५) गणयितुं योग्याः । (६) पुण्यवताम् । (७) अतिशयेन पीता । (८) कण्ठमर्यादीकृत्य । (९) उत्सुकैः ॥११८॥ हे नृपते ! ते जना धन्याः पुनस्तेषां जीवितममोघम् । तैर्जन्मफलं प्राप्तम् । पुनः पुण्यवज्जनानामादौ ते गणनीयाः यैः सूरिमुखाम्बुजे लावण्यामृतमास्वादितम् । यथा चन्द्रे चकोरैः पीयूषं पीयते ॥१२५।। 'ताडङ्का इव कर्णपूरपदवीमालम्बमानाः पुनबिभ्राणा हृदये श्रियं त्रिजगतां 'मुक्ताकलापा इव । हर्षाहुँद्भुषिता वयं स्मृतिवशाद्येषां प्रियाणामिव "क्षोणीभूषण ! भूषणैरिव गुणैस्तै ष्यते स प्रभुः ॥११९॥ (१) कुण्डलाः । (२) निःश्रयन्तः । (३) हाराः । (४) रोमाञ्चिताः । (५) स्मरणप्रभावात् । (६) इष्टानाम् । (७) वसुधालङ्कार ! ॥११९॥ ये गुणाः कुण्डला इव कर्णपूरतां दधानाः । पुनर्ये हारा इव जगज्जनहृदयं शोभां दधानाः । यथेष्टस्मरणादुल्लास: सञ्जायते तथा येषां स्मरणाद्वयमुल्लसिता जाताः स्मः । हे महीमण्डन ! तैर्गुणैः स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy