________________
श्री हीरसुन्दर' महाकाव्यम् शान्तान् कुर्वन् ॥११९॥
यद्वाग्विधित्सया धात्रा-3ऽदत्तां वीक्ष्योऽम्बुधिः सुधाम् ।
खेदादिवामितुमुलैः, पतितो रटति क्षितौ ॥११३॥
(१) यस्य वाण्याश्चिकीर्षया-कर्तुमिच्छया । (२) गृहीताम् । (३) क्षीरसमुद्रः । (४) विषादात् । (५) कल्लोलव्याकुलरवैः । (६) भूमौ । (७) पतितो रोदिति ॥११३॥
यस्य सूरेर्वाग्विधानेच्छया धात्रा सुधां गृहीतां वीक्ष्य समुद्रः कल्लोलकोलाहलैः कृत्वा पृथ्व्यां पतितः सन् रटति-रोदिति-पूत्कुरुत इव । उत्प्रेक्ष्यते-खेदादिव-दुःखादिव ॥१२०।।
न कदाचन गोचरा मनाक्, स्म भजन्ते 'प्रभविष्णुतां प्रभौ ।
दशना इव दन्तिनां मही-भृति वा भानुमतीव तामसाः ॥११४॥
(१) शब्दादिविषयाः । (२) किञ्चिदपि । (३) सामर्थ्यम् । (४) गजानाम् । (५) दन्ताः (६) गिरौ । (७) सूर्ये । (८) अन्धकारनिकराः कौशिका वा ॥११४॥
न क० । विषयास्तं न प्राभवन् । यथा गजदन्ता गिरौ न प्रभवन्ति । पुनर्यथा रवौ तमांसि न प्रभवन्ति ।।१२१॥ 'सुधाधामदुग्धाब्धिकर्पूरपारी-कुमुत्कुन्दशुभैर्यशोभिर्यतीन्दोः । कुदृक्कोटिसंटीकमानायशोभिः, पुनर्विश्चमीश ! प्रयागी(गा )यति( ते) स्म ॥११५॥
(१) चन्द्र-क्षीराब्धि-घनसार-शकल-कैरव-मुचकुन्दकुसुमावदातैः । पार्यः शब्देन शकलानि 'फडसि' इति प्रसिद्धाः । (२) कुमतिकोटीनां प्रस[र]दपकीर्तिभिः । (३) स्वामिन् !। (४) प्रयागवद्-गङ्गायमुनासङ्गमभूमिवदाचरति ॥११५॥
चन्द्र-क्षीरार्णव-कर्पूरखण्ड-कुमुद-मुचकुन्दधवलैः सूरियशोभिः पुनः कुमतानां प्रसरणाप्तैरपयशोभिर्विश्वं गङ्गायमुनासङ्गवदाचरति स्म ॥१२२॥
राजन् ! यस्य गुणान्गलन्मितिसुधास्पन्दोन्निपीयाऽऽदरान्मद्भोज्या अपि मर्यनादरपरा भोगीश्वरा भाविनः । मां ताता!ऽनुगृहाण तेन सुधयेत्यभ्यर्थितः साग्रहं तानश्रावयितुं किमम्बुरुहभूरेतान्विकर्णान्व्यधात् ॥११६॥
(१) अप्रमाणामृतरसान् । (२) सादरं श्रुत्वा । (३) अहमेव भोजनं येषाम् । (४) मयि विषये । (५) अस्वीकारे परायणाः (६) नागेन्द्राः (७) तात !-धातः ! । (८) अनुग्रहं कुरु। (९) तेन कारणेन । (१०) इत्यमुना प्रकारेण । (११) याचितः । (१२) नागान् । (१३) अनाकर्णयितुम् । (१४) ब्रह्मा । (१५) कर्णरहितान् ॥११६॥
हे राजन् ! सूरिगुणान् गलन्ती-निर्यान्ती मितिर्मानं येषु-अगणितान्सुधारसानिव श्रुत्वा सुधाशिनोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org