________________
दशमः सर्गः
६५ तु पृथ्वीधरत्वम् । (५) शैलैर्नृपैश्च । (६) भूधरतया विभागीकृतम् । (७) सूरिक्ष्माधरपदम् । (८) प्राप्तुम् ।(९) सेवते । (१०) कृष्णम् ।(११) पल्यङ्कशरीरधरः-शेषनागः । शेषशय्याशायी कृष्ण' इति ख्यातिः ॥१०९॥
___परमार्थतः क्षमाधरत्वं केनाऽपि सूरिणा नाऽऽदत्तम् । पुनः शेषनागस्य क्षमाधरत्वं गिर्यादिभिर्गृहीतम् । तस्मात्सूरेः पदं प्राप्तुं शय्यारूप: शेष: कृष्णं सेवते । क्षमा-क्षान्तिर्धरा चेति ॥११६।।
'गम्भीरभावं दधता जिनं च, हृदा विगीतः प्रभुणा पयोधिः । पादारविन्दे किममुष्य लक्ष्म-लक्षादुपास्त्यै स्थितवार्नुपेत्य ॥११०॥
(१) गाम्भीर्यम् । (२) जिनो-ऽर्हत्कृष्णयोः । (३) तिरस्कृतः । (४) समुद्रः । (५) सूरेः । (६) आकारमिषात् । (७) सेवायै । (८) आगत्य ॥११०॥
गम्भी० । गाम्भीर्यं जिनं-वीतरागं कृष्णं च दधता सूरिणा जितोऽर्णवो लाञ्छनच्छलात्सेवायै आगतः ॥११७॥
धरेश ! येनाधरितो महिम्ना, 'सुजातरूपेण च धीरताभिः । महीधरो मन्युभुजामुंदीत-व्रीडाज्जडीभावमिवाऽऽबभार ॥१११॥
(१) हीनीकृतः । (२) माहात्म्येन । (३) सुष्ठ-शोभनं यज्जातं-प्रकटीभूतं रूपंसौन्दर्यातिशयः शोभनस्वर्णेन च । (४) परीषहादिभिर्निष्प्रकम्पतया धैर्येण वा । (५) देवानां शैलो मेरुः । (६) प्रकटीभूतलज्जायाः । "उदीतमातङ्कितवानशङ्कत" इति नैषधे । व्रीडशब्दोऽकारान्तोऽप्यस्ति । (७) जडताम्-निश्चेष्टताम् ॥१११॥
हे धरेश ! येन सूरिणा महिम्ना पुनः सुवर्णवर्णत्वेन धीरत्वेन च हीनीकृतो देवगिरिज़डातो जडो जातः ॥११८॥
'बाह्यं हन्ति तमो द्विधाऽपि स नृणामस्तङ्गमी नास्तवान् विश्वस्यैव विबोधकृत्स जगतां कृत्स्नपूणन्कौशिकम् । गृहॅन्सर्वरसानसौ नवरसांचिन्वन्जनांस्तापयन्
शान्तानेष सृजन्प्रभो ! तदुपमां धत्ते व भानुस्ततः ॥११२॥
(१) चक्षुर्गोचरम् । (२) सर्वमप्यज्ञानम् । (३) अस्तगमनशीलः ।(४) सर्वदोदयनशीलः । (५) एकस्य जगत उद्योतकर्ता । (६) त्रैलोक्यप्रतिबोधविधाता । (७) घूकविहङ्गं पीडयन् । (८) शक्रं प्रमोदयन् । (९) भूमेः पानीयानि गृह्णन् । (१०) शृङ्गारादिशान्तान्तान् नवापि रसान् । (११) व्याख्यानावसरे पुष्टीकुर्वन् । (१२) शान्तरसयुक्तान् ॥११२॥
हे प्रभो ! सूर्यः सूरेरुपमां कथं धत्ते । यतः सूर्यः बाह्यं ध्वान्तं हन्ति, अयं तु अन्तरङ्गमपि हन्ति । स एकस्यैव भूलोकस्य जागरकारकः, अयं तु प्रतिबोधविधाता । स कौशिकमुलूकं कृत्स्नन्पीडयन्, अयं तु इन्द्रं प्रीणयन् । स सर्वपानीयानि गृह्णन्, असौ तु शृङ्गारादीन्पुष्टान्कुर्वन् । स जनान् तापयन्, अयं तु
Jain Education International
For Private & Personal use only
.
www.jainelibrary.org