SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) सन्तोषसमुद्रगर्भे । (२) सूरेः । (३) ब्रूडिताः(तः) । (४) ज्वलितः । (५) प्रज्वलत्शुक्लध्यानाग्नौ । (६) भक्षितः । (७) संयमसिंहेन । (८) किम्-कथम् । (९) न नयनगोचरः ॥१०५॥ __ श्रीसूरेर्लोभोऽदृश्यो जातः । उत्प्रेक्ष्यते - निर्लोभतार्णवे मग्नो वा ध्यानाग्नौ दग्धो वा चारित्रसिंहेन हस्तिवद्भक्षितः ॥११२॥ तृष्णां महीतलमहेन्द्र ! विभुर्विरत्या, यो वागुरामिव कृपाणिकया न्यकृन्तत् । दुःखान्यलम्भिषत मुग्धजनैर्निपत्य, यस्यां मृगैरिव भवं विपिनं भ्रमद्भिः ॥१०६॥ (१) नानाभिलाषस्वरूपाम् । (२) भूमीशक्र ! । (३) निखिलाभिलाषविरमणेन । (४) मृगजालिकाम् । (५) कर्तरिकया क्षुरिकया वा । (६) चिच्छेद । (७) प्राप्तानि । (८) अनभिज्ञलोकैः । (९) संसारम् । (१०) वनम् ॥१०६॥ हे महीन्द्र ! क्षुरिकासदृशया विरत्या तृष्णावागुरां यो न्यकृन्तत्-चिच्छेद । भववनभ्रमद्भिमूर्खजनमृगैर्यस्यां तृष्णायां पतित्वा दुःखानि प्राप्तानि ॥११३॥ 'विश्वत्रयीश इव निःशरणात्मभाजा-मास्ते महीमिहिर ! यः शरणं शरण्यः । 'मैत्र्यं बिभर्ति जगता न कदाऽप्यमैत्र्यं, भावं स भानुरिव नश्यदशेषदोषः ॥१०७ ॥ (१) त्रैलोक्यनायकः-परमेश्वरः । (२) निर्गतं शरणं यस्य तादृशमात्मानं भजन्तीति । (३) गतिः । (४) शरणागतवत्सलः । (५) मित्रताम् । (६) वैरभावम् । (७) पलायमानाः समस्ता अपगुणाः, श्वेताः कृष्णाश्च रात्रयो यस्मात् ॥१०७॥ __ हे महीरवे ! यो निःशरणानां शरणमास्ते स भानुरिव त्यक्तदोषः ॥११४॥ सम्मोहसन्तमससन्ततिसान्द्रितेषु, मानावनीधरतटीस्थपुटीकृतेषु । संसारवर्त्मसु विमोहवतां शिवस्या -ऽऽख्याता पथः स जगतामिव वर्त्मवेदी ॥१०८॥ (१) महामोहान्धकारश्रेणीनीरन्धितेषु । (२) गर्वगिरितटीभिविषमीकृतेषु । (३) भवमार्गेषु । (४) मिथ्यात्वादिना मूढभावभाजाम् । (५) कथयिता । (६) मुक्तेर्निरुपद्रवस्य वा मार्गस्य । (७) मार्गज्ञाता । (८) जगज्जनानाम् । तात्स्थ्यात्तद्वयपदेशः ॥१०८॥ अज्ञानध्वान्तपूरितेषु पुनरहंकारपर्वतमेखलाविषमेषु संसारमार्गेषु अज्ञानवतां जन्तूनां मोक्षमार्गस्य यः कथयिता । यशा मार्गज्ञाता मार्ग व्यनक्ति ।।११५।। 'अर्थात्क्षमाधरपदं क्वचिदप्रवृत्तं, यस्याऽऽत्मनस्तु गिरिभूपतिर्भिविभक्तम् । दृष्ट्वा तदाँतुमिव शीलति 'शार्गपाणि, पर्यङ्कमूर्तिधरकुण्डलिचक्रवर्ती ॥१०९॥ (१) परमार्थतः । (२) अद्वैतक्षान्तिधरतयाऽन्यत्राऽप्राप्तम् ॥ (३) सूरेः । (४) स्वस्य 1. ०दाप्यमित्रभावं० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy