________________
६१
दशमः सर्गः शक्रे । (६) सेवासक्ते । (७) अवज्ञाकारिणि । (८) वर्षाकालसम्बन्धिमेघस्य । (९) इक्षुक्षेत्रे । (१०) धत्तूरतरौ ॥१३॥
एतस्य० । हे स्वामिन् ! एतदीया दृष्टिः रङ्के देवेन्द्रे च सदृशा । पुनः स्वसेवासक्तेऽवज्ञाकारिणि च पुंसि सदृशा । यथा प्रावृड्मेघस्य इक्षुवने धत्तूरके च वृष्टिः सदृशैव सञ्जायते ॥१००।
सन्ध्याभ्रविभ्रममिवोऽध्रुवभावभाज-मुंद्भावयन्भवमभङ्गरतां च सिद्धेः । आवेदयत्य॑सुमतः कुलयातयामो, वंश्यानिवाऽऽयतिहितः स हितीहितार्थान् ॥९४*॥
(१) सन्ध्यारागविलासम् । (२) अशास्व( श्व )तपरिणामजुषम् । (३) प्रकटीकुर्वन् । (४) संसारम् । (५) शास्व( श्व)तत्वम् । (६) मुक्तेः । (७) कथयति । (८) प्राणिनः । (९) गोत्रवृद्धः । (१०) गोत्रजातान् । (११) आयतौ-उत्तरकाले परलोकादिषु शुभचिन्तकः । वृद्धोऽप्यग्रेहितान्वेषी । (१२) इष्टानिष्टपदार्थान् ॥१४॥
सन्ध्यारागमिवाऽस्थिरभावं संसारं प्रकटयन्, पुनर्मोक्षस्याऽनश्वरत्वं प्रकटयन् स साधुर्जन्तून् हिताहितं कथयति । यथा गोत्रवृद्धो निजान्प्रति शुभाशुभान्भावान्कथयति ॥१०१॥
यस्मिन्गतावधि वसन्ति परे निमग्ना, मीनव्रजा इव जना वृजिनावगूढाः । तस्माद्भवाम्बुनिधितः स पृथग्बभूव, पङ्कान्तराद् घनरसादिव पुण्डरीकम् ॥१५॥
(१) संसारसमुद्रे । (२) अनन्तं कालम् । (३) अन्ये जन्तवः । (४) ब्रूडिताः । (५) मच्छय( त्स्य )गणाः । (६) दुष्कृताश्लिष्टाः-पापभरिताः । (७) कर्दमो मध्ये यस्य । (८) जलात् ॥१५॥
यस्मिन्संसारे पापव्याप्ता जनास्तिष्ठन्ति तस्मात्संसारात्स भिन्नो जातः । यथा पङ्कान्तराज्जलात् पुण्डरीकं भिन्नं भवति ॥१०२॥
सन्त्रस्यदेणरमणीदृगपाङ्गरङ्गो-त्सङ्गप्रन( व तितकटाक्षपरम्पराभिः । चेतस्यविश्यत मुमुक्षुमणेन तस्या-ऽलोकस्य मध्य इव चण्डरुचीरुचीभिः ॥१६॥
(१) भयात्प्रणश्यन्तीनां मृगाङ्गनानां दृगिव दृग् यासां तासां चञ्चललोचनानां नेत्रप्रान्त एव नर्त्तनस्थानं, तस्य क्रोडे ताण्डविताभिः प्रवर्तिताभिः (प्रवर्तिताभिः-ताण्डविताभिः) कटाक्षश्रेणीभिः । (२) चित्ते । (३) प्रविष्टम् । (४) साधुरत्नस्य । (५) सूरेः । (६) जीवाजीवानाधारक्षेत्रस्य (७) विचाले । (८) सूर्यकान्तिभिः । रुचीशब्दो दीर्घईकारान्तोऽप्यस्ति । यथा नैषधे- "वरुणगृहिणीमाशामासादयन्तममुं रुचीनिचय" इति ॥१६॥
त्रस्तकुरङ्गीदृशां नेत्रप्रान्तयोरेव रङ्गयोर्नर्तनस्थानकयो: क्रोडे नतितकटाक्षश्रेणिभिः सूरिहृदये न प्रविष्टं यथा अलोकमध्ये रविकरैर्न प्रविश्यते ॥१०३।। 1. ०तार्थम् हीमु० । 2. ०प्रणति हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org