________________
६०
श्री हीरसुन्दर' महाकाव्यम् भास्वा० । य: सूर्य इव निष्पापमार्ग प्रकटयति । पुनर्यः स्वप्राणानिव जन्तून्पालयति । यो मुक्तात्मेव वाञ्छां न धत्ते । यथा योजनं अनुगतकोशैः कृतां पद्धतिं धत्ते तथा यः करुणाशीलमाचारं धत्ते । पुनः समग्रहितचिन्तकः । पुनर्यः संसृतिसमुद्रे तरति । स एतादृशः साधुरस्ति ॥९५-९६।।
वाचं सुधामिव 'निपीय ततः समुद्र-नेमीतमीवरयितुः श्रवणाञ्जलिभ्याम् । सामाजिकैः स जगदे द्वैिजचन्द्रिकाभिः, संवद्धितस्फुरदुरःस्थलतारहारैः ॥१०॥
(१) पीत्वा । (२) अकब्बरसाहेः । (३) कर्णाञ्जलिभ्याम् । (४) सभ्यैः । (५) साहिः । (६) दन्तकान्तिभिः । चन्द्रिकाशब्देन कान्तिर्यथा रघुकाव्ये-"दशनचन्द्रिकया व्यवभासित"मिति । (७) वृद्धि नीतो दीप्यमानो हृदयस्थितोज्ज्वलमुक्ताकलापो यैः ॥१०॥
आसमुद्रान्तपृथ्वीशस्य वाचं श्रुत्वा सभ्यैः स भाषितः । किंभूतैः सभ्यः ?। द्विजानां-दन्तानां कान्तिभिः संवद्धितो -वृद्धि नीतो वक्षःस्थलस्थस्तारहारो यैस्तादृशैः ॥९७।।
अस्माभिरीशितरदृश्यत दर्शनेषु, सर्वेषु शेखर इवोऽखिलधार्मिकाणाम् । एकः स हीरविजयाभिधसूरिराजः, मापालपङ्क्तिषु भवानिव भूमिपीठे ॥११॥
(१) स्वामिन् ! । (२) अवतंसः । (३) समस्तधर्मवताम् । (४) षड्दर्शनेषु । (५) अद्वितीयः । (६) जगद्विख्यातः । (७) राजराजीषु । (८) त्वमिव ॥११॥
यदुक्तं तत्कविरूचे-हे ईशितः ! अखिलदर्शनेषु धार्मिकमुकुट इव अस्माभिः श्रीहीरविजयसूरिदृष्टः । यथा भूमिपीठे समस्तभूपालेषु भवान्-श्रीमान् साहीनामपि साहिदृश्यते ॥९८।।
अध्याप्य देवगुरुणा स्वविनेयवर्गः, प्रख्यातये प्रति भुवं प्रहितैरिर्वतैः । सभ्यैर्गुणान्कवयितुं कतिचित्तदीया-न्प्रारभ्यते स्म वसुधाधिपतेः पुरस्तात् ॥ ९२॥
(१) पाठयित्वा । (२) बृहस्पतिना (३) निजशिष्यवृन्दैः । (४) प्रसिद्धये । (५) प्रेषितैः । (६) स्तोतुम् । "इट्टे कवयति कवते" इति क्रियाकलापे । (७) हीरविजयसरिसम्बन्धिनः । (८) अकब्बरसाहेरग्रे ॥१२॥
बृहस्पतिना पाठयित्वा भुवं प्रति प्रेषितैरिव सभ्यैस्तदीयागुणान्कवयितुं-वर्णयितुं प्रारभ्यते स्म ॥९९॥
श्रीहीरविजयसूरिगुणवर्णनम्'एतस्य दृष्टिरजनिष्ट विभो ! 'सदृक्षा, 'भिक्षाचरेऽमृतभुजामपि सार्वभौमे । भक्तेऽप्यभक्तिकृति वार्षिकवारिदस्य, वृष्टिर्यर्थेक्षुविपिने कनकद्रुमे वा ॥१३॥ (१) हीरविजयसूरेः । (२) जाता । (३) तुल्या । (४) भिक्षुके । (५) सुरचक्रिणि
1. अथ हीरविजयसूरिगुणवर्णनप्रारम्भः । 2. स्वख्या० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org