SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (२) कुत्राऽपि प्रदेशे । (३) वीणाम् । (४) करे धारयन्तः । (५) सभायाम् । (६) नव:इतर- गायनगानेभ्योऽसाधारणः, अत एवाऽश्रुतपूर्वत्वान्नवीनः पञ्चमरागो गर्भे यस्यास्तादृशी गीतिम् । (७) प्रेषिताः । (८) अकब्बरम् । (९) वीणया उप-समीपे गातुम् । (१०) इन्द्रेण । (११) देवलोकगायनाः । (१२) निजस्य विजये शङ्का-मा मामसौ स्वर्गे समेत्य जयतादिति शङ्कायुक्तं मनो यस्य ॥७८॥ यत्र गान्धर्वा वीणां वहन्तः सन्तो नवीनपञ्चमरागगर्भितां गीतिं गायन्ति । उत्प्रेक्ष्यते-भयद्रुतेनेन्द्रेण तं गायितुं प्रेषिता हाहाहूहूगन्धर्वाः ॥७९।। यस्यां महीमदनसंसदि नर्तकेषु, नृत्यं मनोनयनवृत्तिहरं सृजत्सु । सप्तस्वरैस्तदुदिताप्रमितप्रसत्ति-सप्ताङ्गलक्ष्मिमुदितध्वनितैरिवाऽऽसे ॥७९॥ (१) अतिशायिरूपत्वाद्भूमीमनोभवोऽकब्बरस्तस्य सभायाम् । “निषधवसुधामीनाङ्कस्ये"ति निषधे । (२) नृत्यकारकेषु । (३) मनसां नयनानां च व्यापारं हरतीति मनोनयनहारि । (४) कुर्वत्सु । (५) षड्ज १- ऋषभ २- गान्धार ३- मध्यम ४- पञ्चम ५-धैवत ६-निषध ७नामभिः स्वरैर्जज्ञे (६) तस्मादकब्बरात्प्रकटीभूता प्रमाणरहिता असाधारणा प्रसन्नता यस्यास्तादृश्याः स्वामि-१-अमात्य २-मित्र ३-कोश ४-देश ५-दुर्ग ६-सैन्य ७-लक्षणानि सप्तसङ्ख्यानाङ्गान्यवयवा यस्यास्तादृश्या लक्ष्म्या-राज्यश्रियः हर्षितशब्दितैरिव । समासमध्ये लक्ष्मीशब्दो हुस्वोऽपि दृश्यते - "चरणलक्ष्मिकरग्रहणोत्सवे" इति ऋषभनम्रस्तवे ॥७९॥ मनोनेत्रव्यापारहरं नृत्यं कुर्वत्सु नर्तकेषु सप्तभिः-षड्जऋषभादिभिः स्वरैरासे-प्रकटीभूतम् । उत्प्रेक्ष्यते-तस्माद्राज्ञ उदिताऽगणिता प्रसत्तिर्यस्यास्तादृश्या: सप्ताङ्गलक्ष्म्याः प्रमोदशब्दैः प्रकटीभूतम् ॥८०॥ 'कुत्राऽपि मौरजिकमण्डलवाद्यमान-माद्यन्मृदङ्गनिनदानंनुक कामः । जैनं पदं परिचरन्विंगतावलम्बः, श्रेयोऽनुतिष्ठति घनः किमु कामवर्षी ॥८॥ (१) वचन प्रदेशे । (२) मृदङ्गवादकानां व्रजेन पाणिभिस्ताड्यमानानां भोजनदानेन मदवतां गम्भीरध्वनिभाजां मर्दलानां शब्दान् । (३) सदृशीभवितुमिच्छुः । (४) जैनं-जिनेन्द्रसम्बन्धि विष्णुसम्बन्धि वा । (५) चरणम् । (६) सेवमानः । (७) गत आश्रयः - स्वजनादिवर्गो यस्य । एकाकीत्यर्थ : । (८) पुण्यम् ।(९) कुरुते । (१०) मेघः । (११) काममतिशयेनाऽभिलाषं वा वर्षति-ददातीति ॥८॥ क्वापि मृदङ्गवादकौघैर्वाद्यमानाद्भुतमट्टलशब्दान् सदृशीभवितुं कामोऽभिलाषो यस्य तादृग् घनोऽर्हच्चरणं-गगनं सेवमान एकाकी सन् इही(ईहि)तपूरकः सुकृतं करोति ॥८१॥ स्वर्गे न किञ्चिदपि दानमवाप्नुवद्भिः, प्राप्तैस्तैाप्तुमवनी धनदाद्धरेन्द्रात् । देवैर्न तुम्बुरुमुखैः क्वचन 'प्रवीणै-र्वीणा अवादिषत कर्णसुधां "किरन्त्यः ॥८१॥ (१) देवलोके । (२) स्तोकमपि । (३) लभमानैः । (४) आगतैः । (५) दानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy