SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५४ श्री हीरसुन्दर' महाकाव्यम् प्रभाकरत्वेन । सगोत्रा हि सायुधाः सङ्ग्रामसमये सगोत्रसमीपे प्रायः समायान्ति ॥७०।। 'यत्रोऽऽपणेष्वंगुरुचन्दनगन्धधूली-चन्द्रप्रकीर्णकमणीसुरदूष्यमुख्याः । ज्ञानेंजिनैस्त्रिजगतीव समस्तवस्तु-वीथी व्यलोक्यत नरैनिंजनेत्रपद्यैः ॥७१॥ (१) फतेपुरे । (२) हट्टेषु (३) कृष्णागुरु-श्रीखण्ड-मृगनाभि-कर्पूर-चामर-चन्द्रकान्त - कर्केतनादिरत्न-देवदूष्यप्रमुखाः । (४) केवलिभिः । (५) त्रि(त्रै)लोक्ये । (६) निखिलपदार्थपतिः । (७) दृष्टा । (८) जनैः । (९) स्वनयनकमलैः ॥७१॥ । यत्रा० । यत्र हट्टेषु अगरुचन्दन-कस्तूरी-कर्पूर-चामर-रत्न-देवदु(दू)ष्यप्रमुखा समस्तवस्तुश्रेणी स्वनेत्रैनरैदृष्टा । यथाऽर्हद्भिस्त्रिजगति वस्तुश्रेणी दृष्टा ॥७१।। 'श्रेणीभवन्त्युभयपक्षवलक्षरत्न-हट्टावली विलसति स्म फतेपुरस्य । 'सुस्वामिसम्मदितयत्पुरपद्मधाम्ना, वक्षःस्थलाकलितमौक्तिकमालिकेव ॥७२॥ (१) द्विपङ्क्त्या जायमाना । (२) द्वयोः पार्श्वयोर्वलक्षरत्नानां स्फटिकमणी बद्धानामापणानां श्रेणिः । "शय्यां त्यजन्त्युभयपक्षविनीतनिद्रा" इति रघौ । द्वाभ्यां पक्षाभ्यां पार्श्वपरिवर्त्तनेनाऽपास्ता निद्रा यैरिति तद्वत्तौ । (३) प्रजाप्रीतिकारिणा नृपेण जातहर्षया नगरलक्ष्म्या। (४) हृदये धृतमुक्ताफलहारयष्टिरिव ॥७२॥ पङ्क्तौ जायमाना उभयपार्श्वयोः स्फु(फ)टिकरत्नरचितहट्टश्रेणिः शुशुभे । उत्प्रेक्ष्यते-सुस्वामिना हर्षितया यत्पुरलक्ष्म्या वक्षःस्थले परिहिता मुक्तालता ॥७२॥ वेश्मव्रजाः परि विभान्ति मणीमरीचि-सञ्चारचूर्णिततमीतिमिरप्रसाराः । स्फुर्त्या विजित्य सुमनोनगरी गृहीता, मन्ये 'विमाननिवहा अनयाँऽदसीयाः ॥७३॥ (१) गृहगणाः ।(२) फतेपुरे ।(३) रत्नकान्तिविस्तारेण खण्डितनिशान्धकारविस्ताराः । (४) शोभाविस्फूजितेन । (५) अमरावतीम् । (६) सुरयानव्रजाः । (७) श्रीकर्या । (८) स्व:पुरीसम्बन्धिनः ॥७३॥ रत्नरुचिप्रसारहतध्वान्ता गृहव्रजा: फतेपुरे भान्ति । उत्प्रेक्ष्यते-स्वविभूषयाऽमरावती जित्वाऽस्या विमानौघा गृहीताः ॥७३॥ चित्ते 'विचिन्त्य भयमभ्रपथेभियाति-स्वर्भाणुतो निजपरिच्छदमयशेषम् । आदाय यद्विविधरत्ननिकेतकायाः, सातं क्षिताविव वसन्ति सितांशुसूर्याः ।।७४॥ (१) विचार्य । (२) आकाशे । (३) वैरिणो विधुन्तुदात् । (४) ग्रहनक्षत्रतारकादिपरिवारम् । (५) समग्रम् । (६) गृहीत्वा । (७) यन्नगर्या अनेकप्रकाराणां श्वेत-पीत-रक्त-नीलकृष्णानां मणीनां गृहा एव शरीरा येषाम् । (८) सुखेन । (९) चन्द्रभानवः ।।७४॥ गगने वैरिराहुतो भयं ज्ञात्वा यद्हदम्भाद्भूमौ ससुखं स्थिताश्चन्द्रसूर्याः ॥७४।।। 1. ०दुष्य० हीमु० । 2. इति हट्टावली । हील० । 3. जहत्युभ० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy