SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ५१ 'श्रीआगरापुरंमुपेत्य कियन्ति वर्षा-ण्यम्भोधिनेमिविधुना वसतिर्वितेने ।। भूकश्यपेन मथुरामिव हेमपद्म-निष्पातिपौष्पकपिशार्कसुताकलापाम् ॥६२॥ (१) आगरानामनगरीम् । (२) दिल्लीपुरादागत्य । (३) अकब्बरेण । (४) स्थितिः । (५) कृता । (६) वसुदेवेन । "वसुदेवो भूकश्यपो दु( दि)न्दुरानकदुन्दुभि" रिति हैम्याम् । (७) सुवर्णकमलेभ्यो निःसरद्भिः परागैः पिङ्गीकृताम्बुयमुना एव मेखला यस्याः । “हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतै' रिति पद्मानां पीतत्वम् ॥६२॥ स साहिरागरापुरे कियद्वर्षाणि तस्थौ । यथा मथुरां प्राप्य वसुदेवेन कियदब्दं स्थितम् । किंभूतां पुरं मथुरां च ? । हेमसरोजेभ्यः पतन्मरन्दपरागपिङ्गीकृता यमुना एव कटिमेखला यस्याः ताम् ।।६२।। तस्थौ समाः स कियतीः पुरागराख्यां, भूमान्विभूष्य मथुरामिव वृष्णिसूनुः । 'भर्तुर्वशेव 'सरसा सरसीरुहास्या, श्यामाङ्गमर्कतनुजा भजते स्म यस्याः ॥१२॥ पाठान्तरम् ॥ (१) स्थितः । (२) वर्षाणि (३) कियत्सङ्ख्याकाः । (४) आगराभिधानाम् । (५) नगरीम् । (६) राजा ।(७) अलंकृता( त्य)।(८) वसुदेवः । (९) कान्तस्य । (१०) सह रसेन पानीयेन शृङ्गारादिना वा वर्त्तते या, सा ।(११) पद्मान्येव तद्वद्वा वक्त्रं यस्याः । (१२) कृष्णजला। "कालिन्दी कन्हविरहे अज्जवि कालं जलं वहइ" इति वृत्तरत्नाकरवृत्तौ । षोडशवार्षिकी ।(१३) समीपमुत्सङ्गं च । (१४) यमुना । अपरपाठः ॥२॥ यथा वसुदेवः कंसोपरोधेन स्थितः, तथा स्थितः । यस्या अक्-अन्तिकं यमी भेजे । यथा पत्युरुत्सङ्गं पत्नी भजते । किंभूता ?। सजला सशृङ्गारा च । जलजमेव तद्वद्वा मुखं यस्याः । पुनः कृष्णा षोडशवार्षिकी च ॥६२॥ 'स श्रीकरीपुरमैवासयदात्मशिल्पि-सार्थेन डॉमरसरःसविधे 'धरेशः । इन्द्रानुजात इव *पुण्यजनेश्वरेण, श्रीद्वारकां जलधिगाधवसन्निधाने ॥३॥ (१) अकब्बरसाहिः । (२) वासयति स्म । (३) स्वकीयविज्ञान( नि )निवहैः । (४) डामरनाम्नस्तटाकस्य सन्निधौ । तदपि साहिना खानितं प्राक् । (५) भूपतिः । (६) विष्णुरिव (७) धनदेन । (८) समुद्रपार्वे ॥६३॥ यथा कृष्णोऽर्णवतटे वासयति स्म, तद्वत् स डाबरसरः समीपे श्रीकरी अवासयत् ॥६३॥ प्रोक्काश्यपीपतिरकब्बरपातिसाहि-स्तस्याः पुरः प्रतिभटान्चलविजेतुम् । आशा दशाऽपि कुरुते स्म फते स यस्मा-त्तस्मात्फतेपुरमिति प्रददौ तदा ह्वाम् ॥६४॥* (१) पूर्व-वासनसमये । (२) पृथ्वीनाथः । (३) श्रीकर्या नगर्याः । (४) वैरिणः । 1. डाबर० हीमु० । 2. प्रददे हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy