________________
श्री हीरसुन्दर' महाकाव्यम् आसमुद्रान्तधरा चन्द्रस्य यस्याऽऽज्ञा उत्तराभूपैः शीर्षा । 'सेस' इति लोकोक्ति । तद्वद् धृता । पुनः पश्चिमभूपा यतयः सान्यासिका जाताः । किंभूताः ? । यथा वैराग्यात्त्यक्तगृहादिसङ्गा भवन्ति तथा भयाज्जाताः ॥५९॥
ऐश्वर्यमीशत इव प्रभुतां सुरेन्द्रा-दोजो रवेनिधिपतेश्च वदान्यभावम् । 'भोगीश्वरादिद)वनिगौरवसासहित्व- मादाय योऽम्बुजभुवा निरमायि भूमान् ॥५९॥
(१) ईश्वरताम् । (२) ईश्वरात् । (३) स्वामित्वम् सामर्थ्य वा । (४) शक्रात् । (५) प्रतापम् । (६) सूर्यात् । (७) धनदात् । (८) दातृताम् । (९) शेषनागात् । (१०) भूमिभारसहनशीलताम् । “सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वाच्यौ । सासहिर्वावहिः चाचलिः पापति'"रिति प्रक्रियाकौमुद्याम् । (११) गृहीत्वा (१२) धात्रा (१३) कृतः । (१४) नृपतिः ॥५९॥
___ईशादैश्वर्यं गृहीत्वा, इन्द्रात्प्रभुत्वं, रवेः प्रतापं, पुनर्धनदाद्दानशीलतां, शेषनागात्पृथ्वीभारं गृहीत्वा धात्रा यः पातिसाहिः कृतः ॥५७।।
सर्वे जनाः सृजति राजनि यत्र राज्य, प्रह्लत्तिपल्लवितचित्तपथा बभूवुः । 'दुःस्थैरिवाऽऽपि न परं प्रतिपक्षलक्ष-क्षोणीमहेन्द्रमहिलानिवहैः सुखांशः ॥६०॥
(१) यस्मिन्नकब्बरे । (२) राज्यं कुर्वति सति । (३) प्रह्लादेन पल्लविता बहलीभूता मनसां वृत्तयो येषां ते।'ह्लाद' इति योगविभागात् क्तिनि हस्वः' इति प्रक्रियायाम् - प्रह्लत्तिः । (४) दरिद्रैरिव । (५) प्राप्तः । (६) केवलम् । (७) वैरिभूता लक्षसङ्ख्या ये नृपास्तेषां कान्तासन्तितिभिः । (८) सुखस्य लेशोऽपि ॥६०॥
यस्मिन्भूपे राज्यं कुर्वति सति सर्वे जनाः प्रह्लादपल्लवितमनोवृत्तयो जाताः । परमयं विशेषः यद्वैरिवनितौघैः सातलेशोऽपि न प्राप्त: । यथा दरिद्रैः सुखं नाऽऽप्यते ॥६०॥ मेरुर्गिरिष्विव गभस्तिरिव 'ग्रहेषु, बॅहिर्मुखेष्विव वृषा प्रमुखो नृपेषु । आक्रम्य चक्रिवदसौ क्षितिशक्रचक्रं, शास्ति स्म साहिरखिलां चतुरब्धिकाञ्चीम् ॥११॥
(१) समस्तपर्वतेषु । (२) स्वर्णाचलः । (३) सूर्य : । ( ४ ) मङ्गलादिषु । (५) देवेषु । (६) इन्द्रः । (७) राजसु । (८) मुख्यः । (९) स्वायत्तीकृत्य । (१०) चक्रवर्तीव । (११) समस्तराजव्रजम् । (१२) पालयति स्म । (१३) अकब्बरनृपः । (१४) चत्वारः समुद्रा मेखला यस्यास्ताम् ॥६१॥
मेरु० । यथा मेरुगिरिषु मुख्यः, ग्रहेषु रविः, देवेषु वृषा-वज्री तद्वन्नृपेषु मुख्यः स भूपश्चक्रीव राजवृन्दं सेवकीकृत्याऽखिलां धरां पालयति स्म ॥६१॥
1. इत्यकब्बरसाहियशःप्रत्ययदातृतादिगुणाः । हील० । 2. इत्यकब्बरवर्णनम् । हील.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org