SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः पञ्चाऽपि देवतरवोऽधरिताः स्वादान-लीलायितैर्वसैंमतीकुसुमध्वजेन । सम्भूय काञ्चनशिलोच्चयचूलिकायां, किं मन्यन्त्य॑वनिवृत्रहणं विजेतुम् ॥५५॥ (१) कल्प १-पारिजात २-मन्दार ३-हरिचन्दन ४-सन्ताना ५-ऽख्याः कल्पद्रुमाः ।(२) विजिताः । (३) निजविश्राणनविजृम्भितैः । (४) भूमीस्मरेणाऽतिशायिरूपत्वात् । “निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुष" इति नैषधे । (५) एकत्र भूत्वा । (६) मेरुशिखरे । (७) आलोचं कुर्वन्ति । (८) अकब्बरम् ॥५५॥ वसुमत्याः श्रीनन्दनेन दानेन जिताः स्वर्दुमास्तं जेतुमिव स्वर्गिरिशिखरे एकीभूत्वा रहस्यालोचं कुर्वन्तीव ॥५॥ सर्वानुवाद इव यन्महसां विहायः-पान्थः किमु प्रतिनिधिर्हतभुक्पयोधेः । वज्रोऽनुकार इव कायलता हुँताश-पतिः पुनः सहचरस्तडितां विलासः ॥५६॥ (१) सर्वमनुवदतीति । पुनरप्यभिधानमिव । (२) अकब्बरप्रतापानाम् । (३) सूर्यः । (४) प्रतिबिम्बम् । (५) समुद्रवह्निर्वडवानलः । (६) सादृश्यम् । (७) शरीरयष्टिः । (८) अनलमाला । (९) मित्रम् । (१०) विद्युद्वितानम् ॥५६॥ रविर्यत्प्रतापसामस्त्यमनुवदति तादृशः । पुनरप्यभिधानमिव । पुनर्वडवाग्निः(ग्नेः) प्रतिबिम्बतम् । वजं(ज)सदृशम् । पुनरग्निश्रेणिः कायः । पुनर्विद्युद्विजृम्भितं सखा ॥५६॥ 'क्षोणीक्षितः क्षितिरुहानिव वायुरहः, प्राच्या नामयदकब्बरभूमिपालः । तस्माद्दिशो जगृहिरेपि च दाक्षिणात्ये, माँभृद्भरेण शरभादिव सिन्धुरेण ॥५७॥ (१) नृपान् । (२) वृक्षान् । (३) वातवेगः । (४) पूर्वदिग्भवान् । (५) निजस्य नम्रीचकार । नष्ट इत्यर्थः । (६) पुनः । (७) दक्षिणस्यां भवैः । (८) राजव्रजेन । (९) अष्टापदादिव । “शरभः कुञ्जरातिरुत्पादकोऽष्टपादपी"ति हेमाचार्य : ॥ (१०) गजेन ॥५७॥ अकब्बरः पूर्वदिग्भूपाननामयत् । यथा वातवेगस्तरून्नामयति । पुनर्दक्षिणदिग्भूपेन तस्मात्प्रणष्टम् । यथाऽष्टापदाः कुञ्जरेण प्रपलाय्यते ॥५८|| आज्ञा यदम्बुनिधिनेमिविधोरधारि, शीर्षेव मूर्ध्नि धरणीरमणैरुंदीच्यैः । 'पाश्चात्यभूमिपतयो यतयो बभूवु-र्भातेर्विरागत इवोज्झितसङ्गरङ्गाः ॥५८॥ (१) यस्य साहेः । (२) धृता । (३) 'सेस' इति प्रसिद्धिः । (४) उत्तरस्यां भवैर्भूपैः । (५) पश्चिमनृपाः । (६) तापसाः । (७) जाताः । (८) भयात् । (९) वैराग्यात् । (१०) त्यक्तगृहगृहिणीसङ्गमस्य चित्ते सोत्साहो यैः ॥५८॥ . 1. इत्यकब्बरस्य चतुर्दिगाक्रमणम् । हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy