________________
४८
श्री हीरसुन्दर' महाकाव्यम् नित्यं भ्राम्यतः ॥५१॥
एतत्त्रासात्सुभटराजानौ सूर्याचन्द्रमसौ स्वस्थानाद्धृष्टौ । पुनः स्वस्थानालोकनार्थं नित्यं भ्राम्यत इव
॥४३॥
आकस्मिकं तुमुलमेतदनन्यजन्य-व्याहन्यमानभटकोटिभवं निशम्य । "आतङ्कितैः किमिदमित्यमरैर्वदंद्भि-लेंभे किमीक्षणयुगेषु नि मेषनैःस्व्यम् ॥५२॥
(१) अकस्माद्भवमुत्पन्नम् । (२) व्याकुलशब्दम् । (३) एतेनाऽकब्बरेणाऽसाधारणसङ्ग्रामे व्यापाद्यमानानां राजन्यानां कोटिभ्य उत्पन्नम् । (४) श्रुत्वा । (५) चकितैर्भयं प्राप्तैः । (६) इदं किं जातमिदं किं जातममुना प्रकारेण । (७) कथयद्भिः । (८) देवैः । (९) नेत्रद्वन्द्वेषु । (१०) निमीलनदारियम् । भीतेरतिशायितया विकाशितनेत्रैरेवाऽभूयत ॥५२॥
एतेनाऽकब्बरसाहिना असाधारणे रणे मार्यमाणभटकोटिभवं आकस्मिकं कोलाहलसशब्दं श्रुत्वा भीतैः किं जातमिति वदद्भिः सुरैर्नेत्रयुग्मेषु निमेषदौःस्थ्यं प्राप्तमिव ॥४४।।
भूमेर्जयाय 'चतुरम्बुधिमेखलाया, आराध्य पूर्वविधिना किमु जैत्रमन्त्रम् ।
गुप्तं क्वचिन्निजभुजप्रभवत्प्रताप-वह्नौ ततोऽयमरिकीर्तिकनी जुहाव ॥५३॥
(१) चत्वारः पूर्वापरदक्षिणोत्तरलक्षणाः समुद्राः काञ्ची यस्याः । (२) आराधनां कृत्वा । (३) पूर्वसेवया । (४) जयनशीलमन्त्रम् । (५) एकान्ते विजने । (६) कुत्रापि प्रदेशे । (७) स्वबाहूत्पद्यमानप्रतापपावके । (८) वैरिकीर्तिकुमारिकाम् । (९) तत्सिद्धये हुतवान् ॥५३॥
चतुस्समुद्राया भूमेर्जयार्थं पूर्णविधिना क्वचिदुप्तस्थाने मन्त्रमाराध्य अयं साहिर्निजभुजजातप्रतापाग्नौ तन्मन्त्रसिद्ध्यर्थं रिपुकीर्तिनाम्नी कन्यां जुहोति स्मेवेत्यर्थः । कन्याहोमः कुत्रचिद् दृश्यते । श्रीशत्रुञ्जयमाहात्म्ये केनचित्खेचरेणाऽऽनीता होतुं निबिडनिबद्धा गुणसुन्दरी राजकन्या रोदनश्रवणागतेन महीपालकुमारेण मोचितेति दृश्यते ॥४५॥
अभ्रभ्रमाद्यदभिमात्ययशोललाय-मालोक्य भीतिविवशस्य हरेर्हयस्य । संन्त्रस्यतो वदननिर्यदमन्दफेनै-कॊतिष्मती किमभवत्पुर( रु )हूतपद्या ॥५४॥*
(१) आकाशे पर्यटन्तं यस्य रिपुनृपाणामपश्लोकमहिषम् । (२) दृष्ट्वा । (३) भयविह्वलस्य । (४) उच्चैःश्रवसः । (५) अकस्मात्तद्दर्शनोद्भूतभीतेर्नश्यतः । “रामालिरोमावलिदिग्विगाहि-ध्वान्तायते वाहनमन्तकस्य । यत्प्रेक्ष्य दूरादपि बिभ्यतः स्वानश्वान्गृहीत्वाऽपसृतो विवस्वान् ।" इति नैषधे । (६) मुखान्निःसरद्वहुलडिण्डीरैरश्वमुखलालाभिः । (७) तारककलिता (८) शक्रमार्गः -गगनम् ॥५४॥
अभ्र० । गगने भ्रमन्तं तद्वैरिणामयशोमहिषं दृष्ट्वा भयविह्वलस्याऽतस्त्रस्यत उच्चैःश्रवसो मुखात् पतद्भिः फेनैः कृत्वा । उत्प्रेक्ष्यते-गगनं ग्रहनक्षत्राकलितं जातम् ॥५४॥ 1. इत्यकब्बरसाहिसमरवीररसवर्णनम् । 2. ०तीव समभूत्पु० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org