________________
४७
दशमः सर्गः (१) स्वकीयकीर्तिविस्तारैः । (२) चान्द्रीयशोभया । (३) अकब्बरेण । (४) अस्मात्स्वभूमीमण्डलाबहिः कृतो निष्कासितः । (५) गगनगङ्गातटे । (६) तस्माद्दिनादारभ्य । (७) अङ्करकं कृष्णसारम् । (८) कलयन् । (९) चन्द्रो नृपश्च । (१०) व्याधवत् । (११) अनिशमतिशयेन पूर्वापरयोर्दिशोर्भ्राम्यति ॥४८॥
यशसा स्पर्द्धमानः सन् अकब्बरेण निजजनपदान्निष्कासितो राजा-चन्द्रो नृपश्च स्वर्गङ्गातीरे नदीतीरे वा पयःपानागतमृगग्रहणार्थं लुब्धक इवाऽतिशयेन भ्राम्यतीव । प्रायो मृगेनैव मृगा गृह्यन्ते ॥५२॥
पाणौ रणाङ्गणगतस्य कृपाणयष्टिः, क्षोणीमणेस्तॄणयतः पृतनां रिपूणाम् । भाति प्रचण्डभुजदण्डवसज्जयश्री-केशच्छटा प्रेकटतामिव टीकमाना ॥४९॥ _(१) हस्ते । (२) युद्धमध्यप्राप्तस्य । (३) खड्गलता । (४) अकब्बरस्य । (५) तृणीकुर्वतः । तृणप्रायान्मन्यमानस्य । (६) सेनाम् । (७) वैरिणाम् । (८) जानुस्पर्शिनौ प्रतापयुक्तौ बाहावेव दण्डौ, तयोस्तिष्ठन्त्या विजयलक्ष्मीवेणी । (९) स्फुटताम् । (१०) यान्ती । 'टीक गतौ' टीकते ॥४९॥
साहिहस्ते खड्गयष्टिर्भाति । उत्प्रेक्ष्यते - भुजयोर्वसन्त्या जयलक्ष्म्या जनदृग्गोचरत्वं गच्छन्ती कचच्छटा ॥४१॥
खड्गाहतोद्धतमतङ्गजदन्तकुम्भ-प्रोद्भूतपावककणोत्करमुक्तिकाभिः । 'क्षुण्णे तुरङ्गमखुरै रणभूतले य, ओजोयशोऽवनिरुहोर्वपतीव बीजम् ॥५०॥
(१) तरवारिभिः प्रहतेभ्य उत्कटानां गजानां दन्तकोशकुम्भस्थलेभ्यः प्रकटीभूतवह्निस्फुलिङ्गगणमुक्ताफलैः । दशनेभ्योऽग्निस्फुलिङ्गात्कुम्भस्थलविदारणान्मुक्ताफलानि तन्मध्यान्निर्गतानि । (२) क्षोदिते-श्वेडिते इत्यर्थः । (३) अश्वानां नखैः (४) सङ्ग्रामभूमीपीठे । (५) प्रतापकीर्तिरूपद्रुमयोः बीजं वपति ॥५०॥
____ यः साहिरश्वखुरक्षोदिते भूतले खड्गाहतद्विपदन्तकुम्भाभ्यामुद्भूताग्निकणा मुक्ताश्च ताभिः प्रतापकीर्त्तिवृक्षयो।जमुवापेव ॥४२।।
'युद्धोद्धते भुवनभीतिकरे 'नरेशे, 'त्रासात्स्वकीयवसतेरिव राजशूरौ । "भ्रष्टौ पुनस्तंदनवेक्षणतोऽन्तरिक्षे, प्रेक्षाकृते तत इतो 'भ्रमिमादधाते ॥५१॥
(१) रणाङ्गणे वैरिभिर्द्रष्टुमप्यशक्ये । (२) प्रबलबलितया जगतामपि भयोत्पादके । (३) अकब्बरनूपे । (४) आकस्मिकभयात् । (५) स्वस्थानात् । (६) राजा-चन्द्रो नृपश्च, शूरःसूर्यः वीरश्च । (७) भ्रंशं प्राप्तौ । अतिभीतेः स्वस्थानं परित्यज्य परत्र कुत्रापि गतावित्यर्थः । (८) [पुनर्व्याघुट्य । (९) तस्य स्वस्थानकस्याऽनालोकनतः-अदर्शनात् । (१०) आकाशे । (११) दर्शनार्थम् । (१२) इतस्ततः - प्राचीप्रतीच्योः । (१३) भ्रान्ति कुर्वतः । स्ववासस्थानमलभमानौ 1. ०द्धोद्धरे० हीमु० । 2. सूरराजौ हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org