________________
४३
दशमः सर्गः यद्वाणो वायुवदाकर्षणे-आगमने शीघ्रवेधितया नेत्रैर्न दृष्टः परं लग्न एव दृष्टः ॥३०॥ उत्कन्धरावनिधराधिकधीरभावै-भूमीभुजा विगणनां गमिताः समग्राः । एनं निभात्परिणतोद्धरसिन्धुराणां, संसेवितुं क्षितिधराः किममी समीयुः ॥ ३४॥
(१) उच्चैः शिरस्त्वेन भूमेर्धारकत्वेन तथाऽतिशायिधीरत्वेन च । (२) अकब्बरपातिसाहिम् । (३) मदोदयात् ती( ति )र्यक्प्रहारप्रदायिनामुत्कटानां गजानां कपटात् । (४) पर्वताः । (५) प्रत्यक्षाः । (६) समागताः ॥३४॥
उत्क० । कुलाचलाधिकधैर्येणाऽवगणिताः पर्वतास्तिर्यक्प्रहारप्रदायिगजदम्भात्सेवन्ते ॥४६।। यं स्वर्णकायमैरिनागनिपातनिष्णं, दृष्ट्या निपीय हरिवाहनबद्धलीलम् । चित्रं किमत्र यंदरातिमहीन्द्रबाहु-कुम्भीनसैः समरमूनि जडीबभूवे ॥३५॥
(१) स्वर्णवद्गौरदेहः । (२) वैरिषु प्रधाना नृपास्तेषां हनने निपुणम् । (३) अश्व एव यानं तत्र रचिता क्रीडा येन । गरुडस्तु स्वर्णकायस्तथा रिपुभूतसर्पाणां घातने चतुरस्तथा कृष्णस्य याने निर्मितविलासः । (४) यत्कारणाद्वैरिराजभुजभोगीन्द्रैः । (५) रणशिरसि । (६) किंकर्तव्यतामूलैर्जातम् । (७) अत्र स्थाने को विस्मयः यद्गरुडदर्शनादेव सर्पा जडीभवन्त्येव ॥३५॥
सुवर्णवर्णं तन्मयं वा, पुनः अरिषु ये नागा उत्तमा वा अरिभूता ये नागाः सर्पास्तन्मारणे दक्षम्, पुनर्हरिरश्व एवोपलक्षणाद्गजोऽपि वाहनं तस्मिन्स्थितं वा कृष्णवाहनत्वेन स्थितं पातिसाहिं गरुडं वा दृष्ट्वा रिपुभुजाभोगिभिः सङ्ग्रामभूमौ निश्चेष्टैरालेख्यलिखितैरिव जातम् । अत्र प्रकारे को विस्मयो यद्गरुडदर्शनादेव व्याला अपि जडीभवन्ति एव ॥३१॥ यस्याऽऽशुग्रान्णयतः प्रतिभूपतीनां, प्राणान्सुराध्वनि विधाय रवि शरव्यन् । आजि: सकार्मुककरस्य खलूरिकेव, रन्ध्र रवौ रिपुभिरैक्षि न चेत्कुतस्त्यम् ॥३६॥
(१) साहेः (२) आशु शीघ्रं गच्छन्तीत्याशुगा बाणा वा।(३) कुर्वतः (४) शत्रुनृपाणाम् । (५) असून् । (६) गगने । (७) कृत्वा । (८) वेध्यम् । (९) युद्धम् । (१०) धनुर्युतपाणेः । (११) शस्त्राभ्यासभूमी । (१२) छिद्रम् । (१३) सूर्ये । (१४) दृष्टम् ॥३६॥
यस्या० । गगने रविं वेध्यं कृत्वा वैरिप्राणान् शीघ्रगान् बाणान् वा कुर्वतः पुनर्धनुर्द्धरस्य यस्य रणं शस्त्राभ्यासभूरिव जातं, न चेत्सूर्ये रन्ध्र रिपुभिः कथं दृष्टम् ॥३२॥
येनाऽऽहवे प्रेणिहतात्मपतिप्रवृत्तिं, कृत्वा स्वकर्णपथिकी परिपन्थिकान्ताः । वक्षःशिला स्म विलिखन्ति नखाग्रटडैः, कीर्तिप्रशस्तिमिव भूभृदकब्बरस्य ॥३७॥
(१) अकब्बरेण । (२) सङ्ग्रामे । (३) व्यापादिता ये स्वकीयाः पतयस्तेषां वार्ताम् । 9 एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org